________________
गोचरी
श्री. सुमति
विधि:
साधु
दशवै०
अ०५
पुनः, किमित्याह-भवेद् व्रताना-प्राणातिपातविरत्यादीनां पीडा, तदाक्षिप्तचेतसो भावविराधना भवति, श्रामण्ये च श्रमणभावे च द्रव्यतो रजोहरणादिसंधारणरूपे भूयो भावव्रतप्रधानहेतौ संशयः, कदाचिदुनिष्क्रामत्येवेत्यर्थः। तथा च वृद्धसंप्रदाय:-" वेसादिगयभावस्स मेहुणं पीडिजइ, अणुवओगेण एसणाऽरक्खणे(करणे) य हिंसा, पडुप्पायणे अनपुच्छणअवलवणासच्चवयणं अणनुनायवेसाइदंसणे अदत्तादाणं, ममत्तकरणे परिग्गहो, एवं सव्वयपीडा, दवसामने पुण संसओ उन्निक्खमणेणत्ति" सूत्रार्थः ।। ६९ ॥ निगमयन्नाह-'तम्हे'त्ति, यस्मादेवं तस्मादेतद्विज्ञाय दोषमनन्तरोदितं दुर्गतिवर्धन वर्जयेद्वेश्यासामन्तं, मुनिरकान्तं मोक्षमार्गमाश्रित इति ।। ७० ॥ आह-प्रथमव्रतविराधनानन्तरं चतुर्थव्रतविराधनोपन्यासः किमर्थं ?, उच्यते-प्राधान्यख्यापनार्थ, अन्यव्रतविराधनाहेतुत्वेन प्राधान्यं, तच्च लेशतो दर्शितमेवेति । अत्रैव विशेषमाहसाणं सूइयं गावं(वि), दित्तं गोणं हयं गयं । संडिब्भं कलहं जुज्झं, दूरओ परिवजए ॥७॥ अणुन्नए नावणए, अप्पहिढे अणाउले। इंदियाणि जहाभागं, दमइत्ता मुणी चरे ॥७२॥ दवदवस्सन गच्छिज्जा,भासमाणो अ गोयरे।हसंतो नाभिगाच्छज्जा,कुलं उच्चावयं सया ॥७३॥ आलोयं थिग्गलं दारं, संधि दगभवणाणि य। चरंतो न विनिज्झाए, संकटाणं विवजए ॥ ७४॥ रन्नो गिहवईणं च, रहस्तारक्खियाण य । संकिलेसकरं ठाणं, दूरओ परिवजए ॥ ७५॥
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org