________________
श्री.
गोचरीविधिः
सुमति
साधु दशवै० अ०५
॥ ५३॥
यथा चरेत्तथैवाह-'पुरओ जुग'त्ति पुरतो-अग्रतो युगमात्रया-शरीरप्रमाणया शकटोसिंस्थितया दृष्ट्येति वाक्य- शेषः । प्रेक्षमाणः-प्रकर्षेण पश्यन् महीं-भुवं चरेद्-यायात्, न शेषदिगुपयोगेनेति गम्यते । न प्रेक्षमाण एव, अपि तु वर्जयन्-परिहरन् बीजहरितानि, अनेनानेकभेदस्य वनस्पतेः परिहारमाह । तथा प्राणिनो-द्वीन्द्रियादींस्तथोदकंअप्कायं मृत्तिकां च-पृथिवीकार्य, चशब्दात्तेजोवायुपरिग्रहः ।। ६२ ॥ उक्तः संयमविराधनापरिहारः । अधुनाऽऽत्मसंयमविराधनापरिहारमाह-'ओवाय'मिति, अवपातं-गादिरूपं, विषम-निम्नोन्नतं, स्थाणु-ऊर्ध्व काष्ठं, विजलं-विगतजलं कर्दमं परिवर्जयेत्-एतत् सर्व परिहरेत् , तथा सङ्कमेण-जलग परिहाराय पाषाण काष्ठरचितेन न गच्छेतू , आत्मसंयमविराधनासम्भवात् । अपवादमाह-विद्यमाने पराक्रमे-अन्यमार्ग इत्यर्थः । असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेदिति सूत्रार्थः ॥६३।। अवपातादौ दोषमाह-'पवडते व' इति, प्रपतन् वाऽसौ तत्र अवपातादौ प्रस्खलन वा संयतःसाधुः हिंस्याद्-व्यापादयेत्, प्राणिभूतानि प्राणिनो-द्वीन्द्रियादयः, भूतानि-एकेन्द्रियाः, एतदेवाह-त्रसानथवा स्थावरान् , प्रपातेनात्मानं चेत्येवमुभयविराधनेति ॥ ६४॥ यतश्चैवं 'तम्हा' इति, तस्मात् तेन-अवपातादिमार्गेण न गच्छेत्संयतः सुसमाहितो, भगवदाज्ञावर्तीत्यर्थः । सत्यन्येनेति, अन्यस्मिन् समादौ, मार्गेणेति मार्गे छान्दसत्वात् सप्तम्यर्थे तृतीया, असति त्वन्यस्मिन् मार्गे तेनैवावपातादिना यतमेव पराक्रमेत् , यतमिति क्रियाविशेषणं, यतमात्मसंयमविराधनापरिहारेण यायादिति ॥६५॥ अत्रैव विशेषतः पृथ्वीकाययतनामाह-'इंगालं'ति आङ्गारमित्यङ्गाराणामय मा. | ङ्गारस्तमागारं राशि, एवं क्षारराशि तुषराशि च गोमयराशिं च, राशिशब्दः प्रत्येकमभिसम्बध्यते । सरजस्काभ्यां
॥ ५३॥
Jain Education Inteme
For Private & Personel Use Only
Tww.jainelibrary.org