________________
श्री
पिण्डैषणास्वरूपम्
सुमतिसाघु० दशवे.
निकायसंरक्षणैकरूपं कर्मणा मनोवाकायक्रियया प्रमादेन न विराधयेत्-न खण्डयेत् , अप्रमत्तस्य तु द्रव्यविराधना यद्यपि कथंचिद्भवति, तथाप्यसावविराधक एवेत्यर्थः। एतेन "जले जीवाः, स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ? ॥१॥" इत्येतत्प्रत्युक्तं, तथा सूक्ष्माणां विराधनाभावाच ॥ ५९ ।। ब्रवीमि इति पूर्ववत् ॥ व्याख्यातं षड्जीवनिकायाध्ययनम् ।
इति चतुर्थ षड्जीवनिकायाध्ययनं समाप्तम् ४॥
- :____ अधुना पिण्देषणाख्यमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने साधोराचारः षड्जीवनिकायगोचरः प्रायः इत्येतदुक्तं । इह तु धर्मकाये स्वस्थे सति असौ सम्यक् पाल्यते, स चाहारमन्तरेण प्रायः स्वस्थो न भवति, स च सावद्येतरमेद इत्यनवद्यो ग्राह्य इत्येतदुच्यते, उक्तं च-"से संजए समक्खाए, निरवजाहारि जे विऊ । धम्मकायद्विए सम्म, सुहजोगाण साहए ॥१॥" इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति, तच्चेदंसंपत्ते भिक्खकालमि, असंभंतो अमुच्छिओ। इमेण कमजोगेण, भत्तपाणं गवेसए ॥६॥ से गामे वा नगरे वा, गोयरग्गगओ मुणी। चरे मंदमणुविग्गो, अबक्खित्तेण चेयसा ॥१॥ ____ 'संपत्ते'-गाहा, सम्प्राप्ते-शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते भिक्षाकाले-भिक्षासमये, अनेनासम्प्राप्ते भक्त| पानैषणाप्रतिषेधमाह । अलामाज्ञाखण्डनाम्यां दृष्टादृष्टविरोधात् , असम्भ्रान्तः-अनाकुलो यथावदुपयोगादि कृत्वा, नान्यथे
॥५१॥
in Educatan inte
For Private Personal Use Only
Diww.jainelibrary.org