________________
श्रीसुमति
साधु० दशवै०
अ० ४
॥ ५० ॥
Jain Education Interna
जेसिं पिओ तवो संजमो य, खंती अ बंभचेरं च ॥ ( प्र० १) ॥ इच्चेयं छज्जीवणियं, सम्मद्दिट्ठी सया जए ।
दुलहं लभित्तु सामन्नं, कम्मुणा न विराहिज्जासि ॥ ५९ ॥ तिबेमि इति छज्जीवणियानाम चउत्थं अज्झयणं समन्तं ॥ ४ ॥
साम्प्रतमिदं धर्म्मफलं यस्य दुर्लभं तमभिधित्सुराह - 'सुहसा यगस्से' त्ति सुखास्वादकस्य - अभिष्वङ्गेण प्राप्तसुखोपभोक्तुः श्रमणस्य द्रव्यप्रव्रजितस्य साताकुलस्य भावि सुखार्थं व्याक्षिप्तचित्तस्य निकामशायिनः सूत्रार्थवेला मप्युल्लंघ्य शयानस्यो च्छोलनाप्रधाविनः उच्छोलन योदकायतनया प्रकर्षेण धावति - पादादिशुद्धिं करोति यः स तथाविधस्तस्य किमित्याह-दुर्लभादुष्प्रापा सुगतिः - सिद्धिपदपर्यवसाना तादृशस्य भगवदाज्ञालोपकारिण इति गाथार्थः || ५७॥ इदानीं धर्म्मफलं यस्य सुलभं तमाह - 'तवोगुण' इत्यादि, तपोगुणप्रधानस्य षष्ठाष्टमादितपोगुण (धन) वतः ऋजुमतेर्मार्गप्रवृत्तबुद्धेः क्षान्तिसंयमरतस्य - क्षान्तिप्रधान संयमासेविन इत्यर्थः । परीषहान् क्षुत्पिपासादीन् जयतः - अभिभवतः सुलभा सुगतिः-उक्तलक्षणा तादृशस्य भगवदाज्ञाकारिण इति गाथार्थः || ५८ ।। महार्था षड्जीवनिकायिकेति विधिनोपसंहरन्नाह - 'इच्चेय' मित्यादि, इत्येतां षड्जीवनिकायिकामधिकृताध्ययनप्रतिपादितार्थरूपां न विराधयेदितियोगः । सम्यग्दृष्टिः- जीवस्तत्र श्रद्धानवान् सदा यतः - सर्वकालं प्रयत्नपरः सन् किमित्याह - ' दुर्लभं लब्ध्वा श्रामण्यं ' दुष्प्राप्यं प्राप्य श्रमणभावं - पद्जीव
For Private & Personal Use Only
धर्मफलस्य दुर्लभता
गा० ५७-५९
॥ ५० ॥
www.jainelibrary.org