________________
श्री.
धर्मफलम्
सुमति
गा० ५६
साधु दशवै० अ०४
॥४८॥
साम्प्रतं धर्मफलमाह-'जया 'इत्यादि यदा-यस्मिन् काले जीवान् अजीवांश्च द्वावप्येतौ विजानाति-विविधं जानाति तदा-तस्मिन् काले गति-नरकगत्यादिरूपां बहुविधां-स्वपरगतभेदेनानेकप्रकारां तां सर्वजीवानां जानाति यथावस्थितजीवाजीवपरिज्ञानमन्तरेण गतिपरिज्ञानाभावात् ॥ ४५ ॥ उत्तरोत्तर फलवृद्धिमाह-यदा गतिं बहुविधां स्वपरगतभेदेनानेकप्रकारां सर्वजीवानां जानाति. तदा पुण्यं च पापं च-बहुविधगतिनिबन्धनं, तथा बन्ध-जीवकर्मयोगसुखदुःखलक्षणं, मोक्षं-तद्वियोगस्वरूपावस्थानलक्षणं जानाति ॥४६।। 'जया'इत्यादि, यदा पुण्यं च पापं च पन्धं मोक्षं च जानाति तदा निर्विन्ते-मोहाभावात् सम्यग्विचारयत्यसारदुःखरूपतया भोगान्-शब्दादीन यान् दिव्यान् यांश्च मानुषान् , शेषास्तु वस्तुतो भोगा एव न भवन्ति ।। ४७ ॥ 'जया' इत्यादि, यदा निर्विन्ते भोगान् यान् दिव्यान् यांश्च मानुषान् तदा त्यजति संयोग-संबन्धं, द्रव्यतो भावतः साभ्यन्तरवाह्य-क्रोधादिहिरण्यादिसम्बन्धमित्यर्थः | ॥४८॥ 'जया' इत्यादि, यदा त्यजति संयोगं साभ्यन्तरबाह्यं तदा मुण्डो भूत्वा द्रव्यतो भावतश्च प्रव्रजति-प्रकर्षण बजत्यपवर्ग प्रत्यनगारं द्रव्यतो भावतश्चाविद्यमानागारमितिभावः ।। ४९ ॥ 'जया' इत्यादि, यदा मुण्डो भृत्वा प्रव्रजत्यनगारितां तदा संवरमुक्किट्ठति प्राकृतशैल्या उत्कृष्टसंवरं धर्म-सर्वप्राणातिपातादिविनिवृत्तिरूपं चारित्रधर्ममित्यर्थः, स्पृश-N त्यनुत्तरं-सम्यगासेवत इत्यर्थः ॥ ५० ॥ 'जया' इत्यादि, यदोत्कृष्टसंवरं धर्म स्पृशत्यनुत्तरं तदा धुनोति-अनेकार्थतया पातयति कर्मरजः-कमैवात्मरञ्जनाद्रज इव रजः, किंविशिष्टमित्याह-अबोधिकलुषकृतं अबोधिकलुषेण मिथ्यादृष्टिनोपात्तमित्यर्थः ॥ ५१ ॥ 'जया' इत्यादि, यदा धुनोति कर्मरजः अबोधिकलुषकृतं तदा सर्वत्रगं ज्ञानं अशेषज्ञेयविषयं
त्यादि, यदाति संयोग संबन्ध, २७ ॥ जयालरूपतया भोगा
Tal॥४८॥
Jain Education Intera
For Private & Personal Use Only
www.jainelibrary.org