________________
श्री
सुमति
साधु०
दशवै०
अ० ४
।। ४६ ।।
Jain Education Interna
'पडलं लाफ' मिति, प्रथमं -मादी ज्ञानं जीवस्वरूपसंरक्षणोपाय फलविषयं 'ततः' तथाविधज्ञानयमनन्तरं दया-संयमः, तदेकान्तोपादेयतया भावतस्तत्प्रवृत्तेः एवं अनेन प्रकारेण ज्ञानपूर्वक क्रियाप्रतिपत्तिरूपेण तिष्ठति - आस्ते, सर्वसंयतःसर्वप्रव्रजितः, यः पुनरज्ञानी-साध्योपायफल परिज्ञानविकलः स किं करिष्यति १, सर्वत्रान्धतुल्यत्वात् प्रवृत्तिनिवृत्तिनिमित्ताभावात्, किंवा कुर्वन् ज्ञास्यति छेकं निपुणं हितं कालोचितं, पापकं वा - अतो विपरीतमिति, ततश्च तत्करणं भावतोsकरणमेव, समग्रनिमित्ताभावात्, अन्धप्रदीप्तपलायनघुणाक्षर करणवत्, अत एवान्यत्राप्युक्तं - " गीतत्थो य विहारो० ॥ १ ॥ " इत्यादि, अतो ज्ञानाभ्यासः कार्यः ॥ ४१ ॥ तथा चाह - 'सुच्चा०' इति श्रुत्वा - आकर्ण्य तत्साधनस्वरूपविपाकं जानाति - बुद्ध्यते कल्याणं- कल्यो - मोक्षस्तमणति - नयतीति कल्याणं - दयाख्यं संयमस्वरूपं श्रुत्वा जानाति पापं पापकर्म्म असंयमस्वरूपं, उभयमपि संयमासंयमस्वरूपं श्रावकोपयोगि जानाति श्रुत्वा, नाश्रुत्वा, यतश्चैवमत इत्थं विज्ञाय यच्छेकं निपुणं हितं कालोचितं, तत् समाचरेत् तत्कुर्यादित्यर्थः ॥ ४२ ॥ उक्तमेवार्थ स्पष्टयन्नाह - 'जो जीवे 'त्यादि, यो जीवानपि पृथिवीकायिकादि मेदभिन्नान् न जानाति 'अजीवानपि संयमोपघातिनो मद्यहिरण्यादीन् न जानाति, एवं जीवाजीवानजानन् कथमसौ ज्ञास्यति संयमं । तद्विषयं तद्विषयाज्ञानादिति भावः ॥ ४३ ॥ ततश्च ' जो जीवे ' त्यादि, यो जीवानपि विजानाति अजीवानपि विजानाति, जीवाजीवान् विजानन् स एव ज्ञास्यति संयममिति ॥ ४४ ॥ प्रतिपादितः पञ्चम उपदेशार्थाधिकारः । जया जीवमजीवे अ, दोऽवि एए विआणइ । तया गइं बहुविहं, सव्वजीवाण जाणइ ॥ ४५ ॥
For Private & Personal Use Only
उपदेशः
गा० ४४
॥ ४६ ॥
www.jainelibrary.org