SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीसुमति साधु० दशवे० अ० ४ ॥ ४५ ॥ Jain Education International इत्यादि कथं केन प्रकारेण चरेत् १, कथं तिष्ठेत् ?, कथमासीत १, कथं स्वपेत् १, कथं भुञ्जानो भाषमाणः पापं कर्म न नातीति १ ॥ ३८ ॥ आचार्य आह-' जयं चरे ' इत्यादि, यतं चरेत् सूत्रोपदेशेन ईर्यादिसमितः, यतं तिष्ठेत् समाहितो हस्तपादाद्यविक्षेपेण, यतमासीत उपयुक्तमाकुञ्चनाद्यकरणेन, यतं स्वपेत् समाहितो रात्रौ प्रकामशय्यादिपरिहारेण यतं भुञ्जान:- सप्रयोजनमप्रणीतं प्रतरसिंह भक्षितादिना एवं यतं भाषमाणः साधुभाषया मृदु कालप्राप्तं च पापं कर्म - क्लिष्टं अकुशलानुबन्धि ज्ञानावरणादि न बध्नाति-नादत्ते, निराश्रवत्वाद्विहितानुष्ठानपरत्वादिति ॥ ३९ ॥ किं च - ' सव्वभूय' इत्यादि, सर्वभूतेष्वात्मभूतः - सर्वभूतात्मभूतो य आत्मवत् सर्वभूतानि पश्यतीत्यर्थः, तस्यैवं सम्यग् - वीतरागोक्तेन विधिना भूतानि - पृथिव्यादीनि पश्यतः सतः पिहिताश्रवस्य - स्थगितप्राणातिपाताद्याश्रवस्य दान्तस्य- इन्द्रियनो इन्द्रियदमेन पापं कर्म्म नबनाति, तस्य पापकर्मबन्धो न भवतीत्यर्थः ॥ ४० ॥ एवं सति सर्वभूतदयावतः पापकर्मबन्धो न भवति, ततश्च सर्वात्मना दयायामेव यतितव्यं, अलं ज्ञानाभ्यासेनापि ( नेति ) मा भूदव्युत्पन्नविनेयमतिविभ्रम इति तदपोहायाहपढमं नाणं तओ दया, एवं चिट्ठइ सब संजए। अन्नाणी किं काही ?, किंवा नाही छेयपावगं ? ॥४१॥ सुच्चा जाणइ कल्लाणं, सुच्चा जाणइ पावगं । उभयंपि जाणइ सुच्चा, जं छेयं तं समायरे ॥ ४२ ॥ जो जीवेवि न याणेइ, अजीवेवि न याणेइ । जीवाजीवे अयाणंतो, कह सो नाहीइ संयमं ? ॥४३॥ जो जीवेवि वियाणेइ, अजीवे वि वियाणेइ । जीवाजीवे वियाणंतो, सो हु नाहीइ संयमं ॥ ४४ ॥ For Private & Personal Use Only उपदेशः गा० ४० ॥ ४५ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy