________________
श्री
उपदेश | गा०४०
सुमति
साघु०
दशवे
अ०४
॥४४॥
अजयं भुंजमाणो य, पाणभू०। बंधई०, तं से० ॥ ३६ ॥
अजयं भासमाणो य, पाणभू०। बंधई०, तं से० ॥ ३७॥ कहं चरे ? कह चिट्रे?, कहमासे ? कहं सए ? । कहं तो भासंतो, पावं कम्मं न बंधइ? ॥ ३८ ॥ जयं चरे जयं चिट्टे, जयमासे जयं सए । जयं भुंजंतो भासंतो, पावं कम्मं न बंधइ ॥ ३९ ॥ सबभूयप्पभूयस्स, सम्मं भूयाइं पासओ। पिहियासवस्स दंतस्स, पावं कम्मं न बंधइ ॥ ४०॥
सांप्रतं उपदेशाख्यः पञ्चम उच्यते-अजयमित्यादि अयतं चरनयतं गच्छन्-इर्यासमितिमुल्लंध्य, किमित्याह-'प्राणि भृतानि हिनस्ति', प्राणिनो-द्वीन्द्रियादयो भूतानि-एकेन्द्रियास्तानि हिनस्ति-प्रमादानाभोगाभ्यां व्यापादयतीतिभावः, | तानि च हिंसन् 'बध्नाति पापं कर्म' अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि, 'तत् से भवति कटुकफलं' तत्-पापं कर्म, से तस्यायतचारिणो भवति, कटुकफलमिति अनुस्वारोऽलाक्षणिकः अशुभफलं भवति, मोहादिहेतुतया विपाकदारुणमित्यर्थः ॥ ३२ ॥ एवमयतं तिष्ठन् ऊर्ध्वस्थानेनासमाहितो हस्तपादादि विक्षिपन् , शेषं पूर्ववत् ।। ३३ ॥ एवमयतमासीनोनिषण्णतयाऽनुपयुक्त आकुश्चनादिभावेन, शेषं पूर्ववत् ।। ३४ ।। एवमयतं स्वपन्-असमाहितो दिवा प्रकामशय्यादिना(वा), शेषं पूर्ववत् ।। ३५ ।। एवमयतं भुञ्जानो-निष्प्रयोजनं प्रणीतं काकशृगालभक्षितादिना(वा), शेषं पूर्ववत् ॥ ३६।। एवमयतं भाषमाणो, गृहस्थभाषया निठुरमन्तरभाषादिना(वा), शेषं पूर्ववत् ।। ३७ ।। अत्राह-यद्येवं पापकर्मबन्धस्ततः 'कहं चरे
॥४४॥
A
Jain Education Intema
For Private & Personel Use Only
www.jainelibrary.org