________________
श्री
सुमतिसाधु दशव० अ०४
॥३०॥
सर्वथा निवर्त्तनं, भगवतोक्तमिति वाक्यशेषः, यतश्चैवमत उपादेयमेतदिति विनिश्चित्य 'सर्व भदन्त ! प्राणातिपातं प्रत्याख्यामीति सर्व-निरवशेष, न तु परिस्थूरमेव, भदन्तेति गुर्वामन्त्रणं प्राणातिपातमिति पूर्ववत , प्रत्याख्यामीति- बादरादिप्रतिशब्दः प्रतिषधे, आडाभिमुख्ये, ख्या प्रकथने, प्रतीपमभिमुखं ख्यापनं प्राणातिपातस्य करोमि प्रत्याख्यामीति, अथवा शब्दप्रत्याचक्षे-संवृतात्मा साम्प्रतमनागतप्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः, अनेन व्रतार्थपरिज्ञानादिगुणयुक्त उपस्थापनाई || व्याख्या इत्येतदाह-उक्तं च-“पढिए० ॥१॥" इत्यादि, तदेतद्विशेषेणाभिधित्सुराह-से सुहुमं वेत्यादि, सशद्रो मागधदेशीप्रसिद्धः सू०३ अथशब्दार्थः, स चोपन्यासे, तद्यथा-'सूक्ष्म वा बादरं वा त्रसं वा स्थावरं वा, अत्र सूक्ष्मोऽल्पः परिगृह्यते, न तु सूक्ष्मनामकर्मोदयात् सूक्ष्मः, तस्य कायेन व्यापादनासम्भवात् , बादरोऽपि स्थूरः, स चैकैको द्विधा-त्रसः स्थावरच, सूक्ष्मत्रसः-कुन्थ्वादिः, स्थावरो-वनस्पत्यादिः, बादरवसो गवादिः, स्थावरः पृथिव्यादिः, एतान् , 'नेव सयं पाणे अतिवाएज 'त्ति नैव स्वयं प्राणिनो व्यतिपातयामि, नैवान्यैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपातयतोऽप्यन्यान्न समनुजानामि यावज्जीवमित्यादि पूर्ववत् , व्रतप्रतिप्रत्तिं निगमयन्नाह-प्रथमे भदन्त ! म० उप-सामीप्येन तत्परिणामापच्या स्थितः, इत आरभ्य सर्वस्मात्प्राणातिपाताद्विरमणमिति, भदन्त ! अनेन चादिमध्यावसानेषु गुरुमना| पृच्छय न किंचित्कर्तव्यं, कृतं च तस्मै निवेदनीयमेवं तदाराधितं भवति, एतदेवाह-सर्वस्मात्प्राणातिपाताद्विरमणमिति, महाव्रते उपस्थितोऽस्मि सर्वस्मात्प्राणातिपाताद्विरमणमिति । ३ । उक्तं च प्रथम महाव्रतं, इदानी द्वितीयमाह
अहावरे दोच्चे भंते ! महत्वए मुसावायाओ वेरमणं, सवं भंते! मुसावायं पच्चक्खामि, से
Jain Education Inter
For Private & Personel Use Only
W
www.jainelibrary.org