SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सुमति प्रथममहाव्रतस्वरूपम् क श्री- lal परसाक्षिकी गर्दा-जुगुप्सोच्यते, आत्मानमतीतदण्डकारिणमश्लाघ्यं व्युत्सृजामीति, विविधार्थो विशेषार्थो वा विशब्दः, उच्छद्रो भृशार्थः सृजामि-त्यजामि, ततश्च विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, आह- यद्येवमतीतदण्डप्रतिसाधु क्रमणमात्रमस्यैदम्पयं न प्रत्युत्पन्नसंवरणमनागतप्रत्याख्यानं चेति, नैतदेवं, न करोमीत्यादिना तदुभयसिद्धेरिति । २। दशवै० अयं चात्मप्रतिप्रत्यहाँ दण्डः, सामान्यविशेषरूप इति, सामान्येनोक्तलक्षण एव, स तु विशेषतः पञ्चमहाव्रतरूपतया अङ्गीकर्तव्य अ०४ इति महाव्रतान्याह पढमे भंते ! महत्वए पाणाइवायाओ वेरमणं, सवं भंते पाणाइवायं पच्चक्खामि, से सुहमं ॥२९॥ वा बायरं वा, तसं वा थावरं वा, नेव सयं पाणे अइवाएजा नेवऽन्नेहिं पाणे अइवायाविज्जा, पाणे अइवायंते वि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवमि करतंपि अन्नं न समणुजाणामि तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि। पढमे भंते ! महत्वए उवट्रिओमि सवाओ पाणाइवायाओ वेरमणं १ ।सू०३। पढमे भंते ! इति, सूत्रक्रमप्रामाण्यात् प्राणातिपातविरमणं प्रथमं तस्मिन् प्रथमे भदन्तेति गुरोरामन्त्रणं, महाव्रत इति, महच्च तद्वतं च महाव्रतं, महत्वमणुव्र तापेक्षया महाव्रते प्राणातिपाताद्विरमणं इति, प्राणा-इन्द्रियादयः, तेषामतिपातः प्राणातिपातः-जीवस्य महादुःखोत्पादनं, न तु जीवातिपात एव, तस्माद्विरमणं नाम सम्यगज्ञानश्रद्धानपूर्वकं ॥२९॥ Jain Education Inter 1. For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy