________________
श्री
पड्जीव
सुमति
हिंसा
साधु दशवै० अ०४
प्रत्याख्यानम् सू०२
॥२८॥
करेमि न कारवेमि करंताप अन्नं न समाजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि
अप्पाणं वोसिरामि । सू०२। ___'एतेषां षण्णां जीवनिकायाना'मिति, “ सुपांसुपो भवन्ती "ति सप्तम्यर्थे षष्ठी, एतेषु षट्मु जीवनिकायेषु अनन्तरोदितस्वरूपेषु नैव 'स्वयं' आत्मना 'दण्डं' सट्टनपरितापनादिलक्षणं, समारभेत-प्रवर्तयेत् , तथा नैवान्यैः प्रेष्यादिभिर्दण्डमुक्तलक्षणं समारंभयेत्-कारयेदित्यर्थः, दण्डं समारभमाणानप्यन्यान् प्राणिनो न समनुजानीयात्-नानुमोदयेदिति विधायक भगवद्वचनं, यतश्चैवमतो यावज्जीवमित्यादि यावद्व्युत्सृजामीत्येवमिदं सम्यक प्रतिपद्यतेत्यैदम्पर्य, पदार्थस्तु जीवनं जीवो, यावजीव-आप्राणोपरमादित्यर्थः, किमित्याह-त्रिविधं त्रिविधेनेति तिस्रो विधा:-विधानानि कृतादिरूपाणि यस्येति त्रिविधो, दण्ड इति गम्यते, तं त्रिविधेन करणे नेति, एतदेवो पन्यस्यति, मनसा वचसा कायेन, एतेषां स्वरूपं प्रसिद्धमेव, अस्य च करणस्य कर्म उक्तलक्षणो दण्डः, तं वस्तुतो निराकार्यतया सूत्रेणैवो. पन्यस्यन्नाह, तत्वतः न करोमि स्वयं, न कारयाम्यन्यैः, कुर्वन्तमपि अन्यं न समनुजानामीति, तस्य भदन्त ! प्रतिक्रमामि इति तस्येत्यधिकृतो दण्डः, योऽसौ त्रिकालविषयो दण्डस्तस्य संबन्धिनमतीतमवयव प्रतिक्रमामि, न वर्तमानमनागतं वा, अतीतस्यैव प्रतिक्रमणात् , प्रत्युत्पन्नस्य संवरणाद् अनागतस्य प्रत्याख्यानादिति, भदन्तेति गुरोरामन्त्रणं, भदन्त ! भवान्त ! भयान्त ! इति साधारणा श्रुतिः, एतच्च गुरुसाक्षिक्येव व्रतप्रतिपत्तिः साध्वीति ज्ञापनार्थ, प्रतिक्रमामीति भूताद्दण्डान्निवाऽहमित्युक्तं भवति, तसाच निवृत्तिर्यत्तदनुमतेविरमणमिति, तथा निन्दामि गरिहामीति आत्मसाक्षिकी निन्दा
॥२८॥
Jan Education Inten
For Private
Personal Use Only