SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ समेदाः सू०१ सुमति साधु दशवै० ॥२७॥ कृतत्रसभेदानाह-जे य इत्यादि, ये च कीटपतङ्गा इत्यत्र कीटा:-कृमयः, "एकग्रहणे तजातीयग्रहण"मिति द्वीन्द्रियाः-शंखा- दयोऽपि गृह्यन्ते, पतङ्गाः-शलभाः, अत्रापि पूर्ववञ्चतुरिन्द्रिया भ्रमरादयोऽपि गृह्यन्त इति, तथा याश्च कुन्थुपिपीलिका इत्यनेन त्रीन्द्रियाः सर्वे एव गृह्यन्ते, अत एवाह-सर्वे द्वीन्द्रियाः-कृम्यादयः सर्वे त्रीन्द्रिया:-कुन्थ्वादयः, सर्वे चतुरिन्द्रियाः-पतङ्गादयः, आह-ये च कीटपतङ्गा इत्यादावुदेशव्यत्ययः किमर्थं ?, उच्यते, " विचित्रा सूत्रगतिरतन्त्रः क्रम" इति ज्ञापनार्थ, सर्वे पञ्चेन्द्रियाः सामान्यतो, विशेषतः पुनः सर्वे तिर्यग्योनयो-गवादयः, सर्वे नारका-रत्नप्रभानारकादिभेदभिन्नाः, सर्वे मनुजाः-कर्मभूमिजादयः, सर्वे देवा-भवनवास्यादयः, सर्वशब्दश्चात्र परिशेषभेदानां त्रसत्वख्यापनार्थः, सर्व एव एते त्रसाः, न त्वेकेन्द्रिया इव प्रसाः स्थावराश्चेति, उक्तं च-"पृथिव्यम्बुवनस्पतयः स्थावराः, तेजोवायू द्वीन्द्रियादयश्च त्रसाः" ( तत्त्वा० अ० २, सू. १३-१४ ) इति, सर्वे प्राणिनः परमधर्माण इति, सर्वे एते प्राणिनोद्वीन्द्रियादयः पृथिव्यादयश्च परमधर्माण इति, अत्र परम-सुखं तद्धर्माणः सुखधर्माणः, सुखाभिलाषिण इत्यर्थः, यतश्चैवमतो दुःखोत्पादपरिजिहीर्षया एतेषां पण्णां जीवनिकायानां नैव स्वयं दण्डं समारभेतेतियोगः । षष्ठं जीवनिकाय निगमयन्नाह-एष खलु अनन्तरोदितः कीटादिः, 'षष्ठोजीवनिकायः' पृथिव्यादिपञ्चकायापेक्षया षष्ठत्वमस्य, त्रसकाय इति प्रोच्यते-प्रकर्षणोच्यते सर्वैरेव तीर्थकरगणधरैरिति । १।। इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दंडं समारंभिज्जा, नेवन्नहि दंड समारंभाविज्जा, दंडं समारंभंतेऽवि अन्ने न समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न ॥२७॥ Jain Education Inter For Private & Personel Use Only VIE www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy