________________
श्रीसुमति
साधु०
दश० अ० ४
॥ २६ ॥
Jain Education Intern
एषां विद्यन्त इति प्राणिनः, तद्यथा - अण्डजा इत्यादि, एष खलु षष्ठो जीवनिकायस्त्र सकायः प्रोच्यत इति योगः, तत्राण्डा आता अण्डजाः - पक्षिगृहिकोलिका (किला) दयः, पोता एव जायन्ते पोतजाः, ते च हस्तिवल्गुलीच र्म जलौकाप्रभृतयः, जरायुवेष्टिता जायन्त इति जरायुजाः - गोमहिष्यजाविकमनुष्यादयः, रसाज्जाता रसजा:- तक्रारनालदघितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाजता इति संस्वेदजा:- मत्कुणयुकादयः, संमूर्च्छनाञ्जाताः संमूर्च्छनजाः - शलभपिपीलिका मक्षिका शालू (का) दयः, उद्भेदाजन्म येषां ते उद्भेदजाः पतङ्गखञ्जरीटपारिपुत्रादयः, उपपाताजाताः उपपाते भवा उपपातजाः, उपपातेन वा भवा औपपातिका - देवा नारकाच, एतेषामेव लक्षणमाह-येषां केषाञ्चित् सामान्येनैव प्राणिनां - जीवानामभिक्रान्तं भवतीति वाक्यशेषः, अभिक्रमणमभिक्रान्तं, प्रज्ञापकं प्रत्यभिमुखं क्रमणमित्यर्थः एवं प्रतिक्रमणं प्रतिक्रान्तं प्रज्ञापकात् प्रतीपं क्रमणमिति भावः, सङ्कुचनं सङ्कुचितं - गात्रसङ्कोचकरणं, प्रसारणं प्रसारितं - गात्रवि ततकरणं, रवणं रुतं - शब्दकरणं, भ्रमणं भ्रान्तमितश्चेतश्च गमनं त्रसनं त्रस्तं - दुःखोद्वेजनं, पलायनं पलायितं कुतश्चिन्नाशनं, तथा आगते:- कुतश्चिजातस्य गतेश्व- कुतश्चित् क्वचिदेव, विन्नाया इति ज्ञातारः । आह - अभिक्रान्तप्रतिक्रान्ताभ्यां नागतिगत्योः कचिद्भेद इति किमर्थं भेदेनाभिधानं १, उच्यते, विज्ञानविशेषख्यापनार्थ, एतदुक्तं भवति य एवं जानन्ति यथा मभिक्रमामः प्रतिक्रमामो वा त एव त्रसाः, न तु वृतिं प्रत्यभिक्रमणवन्तोऽपि वल्लयादय इति । आह-एवमपि द्वींद्रियादीनामत्रसत्वप्रसंगः, अभिक्रमण प्रतिक्रमण भावेऽप्येवंविधज्ञानाभावात् ?, नैतदेवं, हेतुसंज्ञयाऽवगतेर्बुद्धिपूर्वकमेव छायात उष्णमुष्णाद्वा छायां प्रति तेषां अभिक्रमणादिभावात् न चैवं वल्लयादीनामभिक्रमणादि, ओघसंज्ञया प्रवृत्तेरिति । अघि
For Private & Personal Use Only
सान
लक्षणम् सू० १
॥ २६ ॥
www.jainelibrary.org