________________
श्रीसुमति
साधु०
दशवै०
अ० ४
॥ २५ ॥
Jain Education Interna
भवति, यथा कृष्णा मृद् उदकस्य पाण्डुमृदश्च परस्परं स्पर्शगन्धादिभिः यदा कृष्णमृदा कलुषितमुदकं भवति तदाऽसौ कृष्णमृदुदकस्य पाण्डुमृदश्च शस्त्रं भवति, एवं च परिणतायां पृथिव्यामुच्चारादिकरणेऽपि नास्ति तदतिपात इत्यहिंसकत्वोपपत्तेः सम्भवी साधुधर्म्म इति । एवमापश्चित्तवत्य आख्याताः, तेजश्चित्तवदाख्यातं वायुश्चित्तवानाख्यातः, वनस्पतिचित्तवानाख्यातः, इत्याद्यपि द्रष्टव्यम् । इदानीं वनस्पतिजीवविशेषप्रतिपादनायाह-' तंजहा अग्गवीया' इत्यादि, तद् यथा उपन्यासार्थः, अग्रं बीजं येषां ते अग्रबीजा:- कोरण्टकादयः, एवं मूलं बीजं येषां ते मूल बीजाः - उत्पलकन्दादयः, पर्व बीजं येषां ते पर्वबीजाः - इक्ष्वादयः, स्कन्धो बीजं येषां ते स्कन्धबीजाः-शल्लक्यादयः, बीजाद् रोहन्तीति बीजरुहाः - शाल्यादयः, संमूर्च्छन्तीति संमूर्छिमाः- प्रसिद्ध बीजाभावेन पृथिवीवर्षादिसमुद्भवास्ते तथाविधास्तृणादयः, न चैते न संभवन्ति, दग्धभूमावपि संभवात्, तथा तृणलतावनस्पतिकायिका इति, अत्र तृणलताग्रहणं स्वगतानेकमेदसंदर्शनार्थं, वनस्पतिकायिकग्रहणं सूक्ष्मवादराद्यनेकवनस्पतिभेदसङ्ग्रहार्थं, एतेन पृथिव्यादीनामपि स्वगता भेदाः पृथिवीशर्करादयः, तथाऽवश्यायमिहिकादयः, अङ्गारज्वालादयः, झञ्झामण्डलिकादयो भेदाः सूचिता इति, सबीजाश्चित्तवन्तः 'आख्याताः' - कथिता इति । एते ह्यनन्तरोदिता वनस्पतिविशेषाः सबीजाः - स्वस्वनिबन्धनाश्चित्तवन्तः - आत्मवन्त आख्याताः - कथिताः । एते चानेकजीवा इत्यादि ध्रुवगण्डिका पूर्ववत् ॥ इदानीं त्रसाधिकार एतदेवाह -' से जे पुण इमे ' सेशब्दोऽथशब्दार्थः, असावप्युपन्यासार्थः, " अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वि "ति वचनात्, अथ ये पुनरमी - बालादीनामपि प्रसिद्धा अनेके - द्वीन्द्रियादिभेदेन बहव एकैकस्यां जातौ त्रसाः प्राणिनः, त्रस्यन्तीति श्रसाः, प्राणा-उच्छ्वासादय
३
For Private & Personal Use Only
वनस्पति
भेदाः सू० १
11 24 11
www.jainelibrary.org