________________
श्रीसुमति
साधु०
दश० अ० ४
|| 28 ||
Jain Education International
19
कायिकानां तदनन्तरं च वनस्पते सोपग्राहकत्वात् श्रसकायिकानामिति । विप्रतिपत्तिनिरासार्थं पुनराह पुढवी चित्तमनमखाया पृथिवी - उक्तलक्षणा चित्तं - जीवलक्षणं तदस्या अस्तीति चित्तवती - सजीवेत्यर्थः, पाठान्तरं वा 'पुढवी चित्तमत्तमक्खाया, ' अत्र मात्रशब्दः स्तोकत्राची यथा “ सर्वपत्रिभागमात्र " मिति, ततश्चित्तमात्रा- स्तोकचित्तेत्यर्थः, तथा च प्रबलमोहोदयात् सर्वजघन्यं चैतन्य मे केन्द्रियाणां तदधिकं द्वीन्द्रियादीनामिति, आख्याता - सर्वज्ञेन कथिता, इयं जीवा - अनेके जीवा यस्यां सा अनेकजीवा, न पुनरेकजीवा, यथा वैदिकानां "पृथिवी देवते" त्येवमादिवचनप्रामाव्यादिति । अनेकजीवापि कैश्विदेकभूतात्मापेक्षयेप्यत एव यथाहुरेके-" एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १ ॥ अत आह- पुढो सत्ता - पृथक् सच्चा:- प्राणिनो ( आत्मानो) यस्यां सा पृथक्सत्त्वा, अंगुलासंख्येय भागमात्रावगाहनया पारमार्थिकानेकजीव समाश्रितेति भावः आह-यद्येवं जीवपिंडरूपा पृथ्वी ततस्तस्यानुच्चारादिकरणेन नियमतस्तदतिपातादहिंसकत्वानुपपत्तिरित्यसंभवी साधुधर्म्म इत्याह- अन्यत्र शस्त्रपरिण ताया:--शस्त्रपरिणतां पृथिवीं विहायान्या चित्तवत्याख्यातेत्यर्थः अथ किं पृथिव्याः शस्त्रं १, - " दवं सत्यग्गिविसंने हंबिलवारलोणमाईयं । भावो उ दुप्पउचो वाया काओ अविरई य ॥ १ ॥ किंची सकायसत्थं, किंची परकाय तदुभयं किंची । एयं तु दवसत्यं भावे अस्संजमो सत्थं ॥ २ ॥" धावनवल्गनोत्खननादिः एतानि स्वपरव्यापादकत्वात्कर्मबन्धनिबन्धनत्वात् शस्त्रमिति, तच्च किंचित् स्वकायशखं यथा कृष्णा मृनीलादिमृदः शस्त्रं, एवं गन्धरसस्पर्श भेदेऽपि शत्रयोजना कार्या, तथा किंचित् परकायेऽपि परकायशस्त्रं यथा पृथ्वी अन्तेजः प्रभृतीना मध्तेजःप्रभृतयो वा पृथिव्याः, तदुभयं किंचिदिति किंचित्तदुमयशखं
For Private & Personal Use Only
पृथिवीस्वरूपम्
॥ २४ ॥
www.jainelibrary.org