________________
श्री
पृथिव्यादिक्रमहेतु
सुमतिसाधु दशवे. अ०४
॥२३॥
कुत इत्याह-अध्ययनं धर्मप्रज्ञप्तिः, "निमित्तकारणहेतुषु सर्वासां प्रायोदर्शन मिति वचनात् , " हेतौ प्रथमा" अध्ययनत्वात् , अध्यात्मानयनात् चेतसो विशुद्धयापादनादित्यर्थः, एतदेव कुत ?, इत्याह-धर्मप्रज्ञप्तेः प्रज्ञपनं प्रज्ञप्तिः धर्मस्य प्रज्ञप्तिः धर्मप्रज्ञप्तिस्ततो धर्मप्रज्ञप्तेः कारणात् चेतसो विशुख्यापादनं, चेतोविशुद्ध्यापादनाच्च श्रेय आत्मनोऽध्येतुमिति, अन्ये तु व्याचक्षते-अध्ययनं धर्मप्रज्ञप्तिरिति, पूर्वोपन्यस्ताध्ययनस्यैवोपादेयतया अनुवादमात्रमेतदिति । शिष्यः पृच्छति-कतरा खलु इत्यादि सूत्रमुक्तार्थमेव, अनेनैतदर्शयति-विहायाभिमानं संविग्नेन शिष्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य इति ।
आचार्य आह-इमा खल्वित्यादिसूत्रमुक्तार्थमेव, अनेनाप्येतदर्शयति गुणवते शिष्याय गुरुणाऽप्युपदेशो दातव्य एवेति । तंजहा-पुढविकाइया इत्यादि, अत्र तद्यथेत्युदाहरणोपन्यासार्थः, पृथिवी-काठिन्यलक्षणा प्रतीता सैव काय:शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः, स्वार्थि के कप्रत्ययः । आपो-द्रवाः प्रतीतास्ता एव काय:शरीरं येषां ते अप्काया अप्काया एव अप्कायिकाः, तेजः-उष्णलक्षणं प्रतीतं तदेव काय:-शरीरं येषां ते तेजस्कायाः तेजस्काया एव तेजस्कायिकाः, वायुश्चलनधर्मा प्रतीत एव स एव काय:-शरीरं येषां ते वायुकाया वायुकाया एव वायुकायिकाः, वनस्पतिः-लतादिरूपः प्रतीतः स एव कायः-शरीरं येषां ते वनस्पतिकायाः वनस्पतिकाया एव वनस्पतिकायिकाः, | एवं त्रसनशीलाखसा प्रतीतात एव काया:-शरीराणि येषां ते त्रसकायात्रसकाया एवं त्रसकायिकाः, इह च सर्वभूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानं, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानां, तदनन्तरमप्रतिपक्षत्वाचेजस्कायिकानां, तदनन्तरं तेजस उपष्टम्मकत्वाद् वायुकायिकानां, तदनन्तरं वायोः शाखाप्रचलनादिगम्पत्वाद् वनसति
॥२३॥
Join Education International
For Private
Personel Use Only
www.jainelibrary.org