________________
श्री
सुमति
साधु
आगमरहस्यगुणवते देयम्
दशः
अ०४
॥२१॥
स्वामिनमिति, सेनेति भुवनभर्तुः परामर्शः, भगः-समग्रैश्वर्यादिः, सोऽस्यास्तीति भगवान् , तेन भगवता वर्द्धमानस्वामिनेत्यर्थः, एवमिति प्रकारवचनः शब्दः, आख्यातमिति केवलज्ञानेनोपलभ्यावेदितं, किमत आह-इह खलु षड्जीवनिकायिकानामाध्ययनमस्तीति वाक्यशेषः, इह तु लोके प्रवचने वा, खलु शब्दान्नान्यतीर्थकृत्प्रवचनेषु षडजीवनिकायिकेति पूर्ववन्नामेत्यभिधानं अध्ययनमिति पूर्ववदेव, इह च श्रुतं मयेत्यनेनात्मपरामर्शेनैकान्तक्षणभङ्गापोहमाह-तत्रेत्थंभूतार्थानुपपत्तेरिति, उक्तं च-" एगंतखणियपक्खे गहणं चिय सत्बहा न अत्थाणं । अणुसरणसासणाई कुतो य तेलोग(क)सिद्धाई॥१॥" तथा आयुष्मन्निति च प्रधानगुणनिष्पन्नेनामन्त्रणवचसा गुणवते शिष्यायागमरहस्यं देयं नागुणवते इत्याह, तदनुकंपाप्रवृत्तेरिति, उक्तं च-" आमे घडे निहितं, जहा जलं तं घड विणासेइ । इय सिद्धतरहस्स, अप्पाहारं विणासेइ ॥१॥" आयुश्च प्रधानो गुणः, सति तस्मिन्नव्यवच्छितिभावात् , 'तेन भगवता एवमाख्यात'मित्यनेन स्वमनीषिकानिरासाच्छास्त्रपारतंत्र्यप्रदर्शनेन न झसर्वज्ञेनानात्मवतान्यतस्तथाभूतान सम्यगनिश्चित्य लोके धर्मदेशना कार्यस्येतदाह विपर्ययसंभवादिति, उक्तं च-" सावजणव जाणं वयणाणं जो न जाणइ विसेसं । वुत्तुंपि तस्स न खमं किमंग पुण देसणं काउं? ॥१॥ किं एत्तो पावयरं सम्म अणहिगयधम्मसम्भावो। अन्नं कुदेसणाए, कट्ठयरागम्मि पाडेइ ॥ २॥" अथवा अन्यथा व्याख्यायते सूत्रैकदेश:-आउसंतेणंति भगवत एव विशेषणं, आयुष्मता भगवता, चिरजीविनेत्यर्थः, मंगलवचनं चैतद्, अथवा जीवता साक्षादेव, अनेन च गणवरपरंपरागमस्य जीवन विमुक्तानादिसिद्धवाश्चापोहमाहदेहायभावेन तथाविधप्रयत्नामावादिति, उक्तं च-" क्यणं न कायजोगाभावे ण य सो अणाइसिद्धस्स । गहणमि य नो
॥२१॥
Jain Education Interna
For Private Personel Use Only
www.jainelibrary.org