SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्री सुमति साधु० दशवै० ब० ३ ॥ १८ ॥ Jain Education International • करा 'इति एवं दुष्कराणि कृत्वा औदेशिकादित्यागादीनि तथा दुस्सहानि सहित्वा आतापनादीनि, केचनात्र देवलोकेषु सौधर्मादिषु गच्छन्तीति वाक्यशेषः, तथा केचन सिद्ध्यन्ति तेनैव भवेन सिद्धिं प्राप्नुवन्ति, वर्तमान निर्देशः सूत्रस्य त्रिकालविषयत्वज्ञापनार्थः, नीरजस्का इत्यष्टविध कर्म्मविप्रमुक्ताः, न त्वेकेन्द्रिया इव कर्म्मयुक्ता एवेति ॥ ३० ॥ ये चैवंविधानुष्ठानतो देवलोकेषु गच्छन्ति तेऽपि ततघुता आर्यदेशेषु सुकुले जन्मावाप्य शीघ्रं सिद्ध्यन्त्येवेत्यत आहखवित्ता पुनकम्माई, संजमेण तवेण य। सिद्धिमग्गमणुप्पत्ता, ताइणो परिनिव्वुड ॥ ३१ ॥ तिमि | खुड्डियायारकहज्झयणं तइयं ३ ॥ 'खवित्ते 'ति तदेवं देवलोकाच्युत्वा क्षपयित्वा पूर्वकर्माणि सावशेषाणि, केनेत्याह-संयमेन उक्तस्त्ररूपेण तपसा च एवं प्रवाहेण सिद्धिमार्ग- सम्यग्दर्शनादिलक्षणमनुप्राप्ताः सन्तस्त्रातारः आत्मादीनां परिनिर्व्वान्ति-सिद्धिं प्राप्नुवन्ति, अन्ये तु पठन्ति - परिनिव्वुडत्ति, तत्रापि प्राकृतशैल्या छान्दसत्वाद्वाऽयमेव पाठो ज्यायानिति ॥ ३१ ॥ ब्रवीमीति पूर्ववदिति । तृतीयं क्षुल्लकाचाराध्ययनं समाप्तम् ३ ॥ --fee For Private & Personal Use Only साधूना फलम् ॥ १८ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy