SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सुमति साधना दुस्सहाः क्रिया: साधु दशवै. अ०३ जीवनिकायेषु पृश्चिम्यादिषु सामस्त्येन यता, पंच निग्रहणा इति निगृहन्तीति निग्रहणाः पंचानां निग्रहणाः, पंचानामिन्द्रियाणां, धीरा-बुद्धिमन्तः, स्थिरा वा, निर्ग्रन्थाः-साधवः, ऋजुदर्शिनः इति अजुः-मोक्षं प्रति ऋजुत्वात् संयमस्तं पश्यन्त्युपादेयतयेति ऋजुदर्शिनः-संयमप्रतिबद्धा इति ॥ २७॥ ते च ऋजुदर्शिनः कालमधिकृत्य यथाशक्त्या एतत् कुर्वन्तिआयावयंति गिम्हेसु, हेमंतेसु अवाउडा । वासासु पडिसंलीणा, संजया सुसमाहिया ॥ २८ ॥ 'आयावयन्ति' आतापयन्तीत्यु स्थानादिना आतापनां कुर्वन्ति ग्रीष्मेष्विति-उष्णकालेषु, हेमन्तेषु-शीतकालेषु अप्रावृता इति-प्रावरणरहितास्तिष्ठन्ति, तथा वर्षासु-वर्षाकालेषु प्रतिसंलीना इत्येकाश्रयस्था भवन्ति, संयता:-साधवः सुसमाहिता-ज्ञानदर्शनादिषु यत्नपराः, ग्रीष्मादिषु बहुवचनं प्रतिवर्षकरणज्ञापनार्थमिति ॥ २८ ॥ किश्चपरीसहरिऊदंता, धूअमोहा जिइंदिया । सव्वदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो ॥ २९ ॥ परीसहे "ति मार्गाच्यवननिर्जराथं परिषोढव्याः परीपहाः (तचा.अ.९,८)-क्षुत्पिपासादयः, त एव रिपवस्तुल्यधर्मत्वात् परीषहरिपवः, ते दान्ता-उपशमं नीता यैस्ते परीषहरिपुदान्ताः, धूतमोहा-विक्षिप्तमोहा इत्यर्थः मोहः-अज्ञानं, जितेन्द्रियाः-शन्दादिषु रागद्वेषरहिता इत्यर्थः, एवम्भूताः सर्वदुःखप्रक्षयार्थ-शारीरमानसाशेषदुःखप्रक्षयनिमित्तं प्रक्रामन्ति-प्रवर्तन्ते महर्षयः-साधव इति ॥ २९ ॥ इदानीमेतेषां फलमाहदुक्कराई करित्ताणं, दुस्सहाई सहेतु अ । केइत्थ देवलोएसु, केइ सिझंति नीरया ॥३०॥ al॥१७॥ Jain Education Intemalhall For Private Personel Use Only Twww.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy