________________
श्रीसुमति
साधू नामनाचरितानि
साधु दशवै०
॥१५॥
चरितमिति २८, तथा चाजीववृत्तिता-जातिकुलगणकर्मशिल्पानामाजीवनं आजीवस्तेन वृत्तिस्तद्भाव आजीववृत्तिता, जात्याद्याजीवनेनान्नयाचनेत्यर्थः, इयं चानाचरिता २९, तथा तप्तानिवृत्तभोजित्वं-तप्तं च तदनिवृत्तं तप्तानिवृत्तअत्रिदंडोत्तं चेति विग्रहः, उदकमिति विशेषणान्यथानुपपच्या गम्यते, तद्भोजित्वं मिश्रसचिचोदकमोजित्वमित्यर्थः, इदं चानाचरितं ३०, आतुरस्मरणानि च-क्षुधाद्यातुराणां पूर्वोपभुक्तस्मरणानि चानाचरितानि आतुरशरणानि वा दोषातुराश्रयदानानीति ३१ ।। २२ । किश्चमूलए सिंगबेरे य, उच्छुखंडे अनिव्वुडे। कंदे मूले अ सञ्चित्ते, फले बीए य आमए ॥ २३ ॥ ___ मूलएत्ति मूलको-लोकप्रतीतः, शृङ्गबेरं च आर्द्रकं च तथा इक्षुखण्डं च लोकप्रतीतं, अनिर्धतग्रहणं सर्वत्राभिसम्बध्यते, अनिर्वृतं-अपरिणतमनाचरितमिति, इक्षुखण्डं चापरिणतं द्विपर्वान्तं यद्वर्तते ३२-३३-३४, तथा कन्दो-वज्रकन्दादिः ३५, मूलं च-सट्टामूलादि सचित्तमनाचरितं ३६, फलं-पुष्यादि ३७, बीज-तिलादि ३८, आमक-सचित्तमनाचरितमिति ॥ २३ ॥ किसोवच्चले सिंधवे लोणे, रोमालोणे य आमए। सामुद्दे पंसुखारे य, कालालोणे अ आमए ॥२४॥
'सोवच्चले 'ति, सोवर्चलं ३९, सैन्धवं ४०, लवणं ४१, रुमालवणं च ४२, आमकं, आमकमिति सचित्त. मनाचरितं, सामुद्र-समुद्रलवणमेव ४३, पांशुक्षार-ऊपरलवणं ४४, कृष्णलवणं च सैन्धवलवणपर्वतेकदेशजं ४५, आमकमनाचरितमिति ॥ २४॥ किञ्च
॥१५॥
Jain Education Inten
For Private & Personel Use Only
www.jainelibrary.org