________________
श्री
सुमति
साधूनामनाचरितानि
साधु
दशः
ब०३
॥१४॥
'नालिका चेति बूतविशेषलक्षणा यत्र मा भूकलयाऽन्यथा पाशकपातनमिति नालिकया पात्यन्त इति, इयं चानाचरिता १८, अष्टापदेन सामान्यतो छूतग्रहणे सत्यप्यभिनिवेशनिबन्धनत्वेन नालिकायाः प्राधान्यख्यापनार्थ नालिकाग्रहणं, अष्टापदयूतविशेषपक्षे चोभयोरिति । छत्रस्य च-लोकप्रसिद्धस्य धारणमात्मानं परं वा प्रत्यनायेति, आगाढग्लानाद्यालंबन मुस्वाऽनाचरितं, प्राकृतशैल्या चात्रानुस्वारलोपोऽकारनकारलोपौ च द्रष्टव्यौ, तथाश्रुतिप्रामाण्यादिति १९ । 'तेगिच्छं 'ति चिकित्साया भावश्चैकित्स्य-व्याधिप्रतिक्रियारूपमनाचरितं २०, उपानही पादयोरनाचरिते, पादयोरिति साभिप्रायक न त्वापत्कल्पपरिहारार्थे उपग्रहधारणेन २१, तथा समारंभणं समारंभव, ज्योतिषः-अग्नेग्नाचरितमिति २२, दोषास्त्वष्टापदादीनां प्रसिद्धा एव क्षुण्णा एवेति ॥ २०॥ किंचसिज्झायरपिंडं च, आसंदीपलियंकए । गिहतरनिसिज्जा य, गायस्सुबट्टणाणि य ॥२१॥ _ 'सिजायर 'इत्यादि, शय्यातरपिंडश्वानाचरितः, शय्या-वसतिस्तया तरति संसारमिति शय्यातरः-साधुवसतिदाता तम्पिडः २३, आसन्दकपर्यकावनाचरितौ एतौ च लोकप्रसिद्धावेव २४-२५, तथा गृहान्तरनिषद्यानाचरिता गृहमेव गृहान्तरं गृहयोर्वा अपान्तरालं तत्रोपवेशनं, चशब्दात् पाटकादिपरिग्रहः २६, तथा गात्रस्य-कायस्योद्वर्तनानि चानाचरितानि, उद्वर्तनानि-पङ्कापनयनलक्षणानि, चशब्दात्तदन्यसंस्कारपरिग्रह इति २७ ॥ २१ ॥ तथागिहिणो वेयावडियं, जाय आजीववत्तिया । तत्तानिठवुडभोइत, आउरस्सरणाणि य ॥२३॥
गिहिणोत्ति गृहिणो-गृहस्वस्य वैयावृत्यमिति व्यावृत्तभावो वैयावृत्य, गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः, एतदना
॥१४॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org