________________
श्री
सुमति
साघु० दशवै०
अ० ३
॥ १२ ॥
Jain Education Intern
व्याख्यातं श्रामण्यपूर्विकाख्यमध्ययनं इदानीं क्षुल्लिकाचारकथाख्यातमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने धर्माम्युपगमे सति मा भूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्युक्तं, इह तु सा धृतिराचारे कार्या, न त्वनाचारे, अयमेवात्मसंयमोपाय इत्येतदुच्यते, उक्तं च- " तस्यात्मा संयतो यो हि, सदाचारे रतः सदा । स एव धृतिमान् धर्मस्तस्यैव हि जिनोदितः ॥ १ ॥ " इत्यनेन सम्बन्धेनायातमिति -
संजमे सुट्ठिअप्पाणं, विप्पमुक्काण ताइणं । तेसिमेयमणाइन्नं, निग्गंथाण महेसिणं ॥ १७ ॥
संयमे-उक्तस्वरूपे शोभनेन प्रकारेणागमनीत्या स्थित आत्मा येषां ते तथा तेषां त एव विशेष्यन्ते विविधैः अनेकैः प्रकारैः प्रकर्षेण - भावसारं मुक्तास्तेषां त एवं विशेष्यन्ते - रक्षन्ति आत्मानं परं उभयं चेति त्रातारः, आत्मानं प्रत्येकबुद्धाः, परं तीर्थकराः स्वतीर्णत्वात्, उभयं स्थविरा इति, तेषामिदं वक्ष्यमाणलक्षणमनाचरितं अकल्प्यं केषामित्याह-निर्बंधानांसाधूनामिति, अभिधानमेतत् महान्तश्च ते ऋषयश्च महर्षयो यतय इत्यर्थः तेषां इह च पूर्वपूर्वभाव एवोत्तरोत्तरभावों नियमतो हेतुहेतुमद्भावेन वेदितव्यो, यत एव संयमे सुस्थितात्मानोऽत एव विप्रमुक्ताः, संयमसुस्थितात्मत्वनिबन्धनत्वाद्विमुक्तः, एवं शेषेष्वपि भावनीयं, अन्ये तु पश्चानुपूर्व्या हेतुहेतुमद्भावं वर्णयन्ति यत एव महर्षयः, अत एव निर्ग्रन्थाः, एवं शेषेष्वपि भावनीयमिति सूत्रार्थः ॥ १७ ॥ साम्प्रतं यदनाचरितं तदाहउद्देसियं कीयगडं, नियागमभिहडाणि य । राइभन्ते सिणाणे य, गंधमले अ वीयणे ॥ १८ ॥ 'उद्देसिय' मिति उद्देश नं - साध्वाद्याश्रित्य दानारम्भस्येत्युद्देशः, उद्देशे भवमौदेशिकं १, क्रयणं क्रीतं, साध्वादिनि
For Private & Personal Use Only
साधूनामना
चरितम्
॥ १२ ॥
www.jainelibrary.org