SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्री पुरुषोत्तमः IC एवं करंति संबुद्धा, पंडिया पविअक्खणा । विणिअहंति भोगेसु, जहा से पुरिसुत्तमो ॥ १६ ॥ सुमति त्ति बेमि । सामन्नपुत्वियं नामज्झयणं समत्तं २॥ साधु । 'एवं करती'ति एवं कुर्वते संबुद्धा:-बुद्धिमन्तो बुद्धाः, सम्यग्दर्शनसाहचर्येण दर्शनकीमावेन वा बुद्धाः संबुद्धादशव० विदितविषयस्वभावाः, सम्यग्दृष्टय इत्यर्थः, त एव विशेष्यन्ते पण्डिताः प्रविचक्षणाः, तत्र पण्डिताः प्रविवक्षया अ०३ सूत्रपण्डिताः सम्यग्ज्ञानवन्तः प्रविचक्षणाश्चरणपरिणामवन्तः, अन्ये तु व्याचक्षते संबुद्धाः सामान्येन बुद्धिमन्तः, पण्डिता वान्तभोगासेवनदोषलाः, प्रविचक्षणा-अवधभीरवः, किं कुर्वन्ति ?-विनिवर्तन्ते भोगेभ्यो विविध-अनेकैः प्रकारैरनादिभवाम्यासवलेन कदय॑माना अपि मोहोदयेन निवर्तन्ते भोगेभ्यो-विषयेभ्यो, यथा क इत्यत्राह-यथा असौ पुरुषोत्तमो रथनेमिः। आह-कथं तस्य पुरुषोत्तमत्वं ? यो हि प्रबजितोऽपि विषयाभिलाषीति ?, उच्यते, तथाऽभिलाषेऽप्यप्रवृत्तेः, | कापुरुषस्त्वभिलाषानुरूपं चेष्टत एवेति । अपरस्त्वाह-दशवैकालिकं नियतश्रुतमेव, यत उक्तं-" नायज्झयणाहरणा इसिभासियमो पइन्नगसुया य । एए होंति अनियया निययं पुण सेसमुस्सणं ॥१॥" तत् कथममिनवोत्पन्नमिदमुदाहरणं युज्यत इति ?, उच्यते, एवंभूतार्थस्यैव नियतश्रुतभावाद् उस्सन्नग्रहणाच्चादोषः, प्रायो नियतं, न तु सर्वथा नियतमेवेत्यर्थः। ब्रवीमीति न स्वमनीषिकया, किन्तु तीर्थकरगणधरोपदेशेनेति ॥ दशवकालिकश्रुतस्कंधे द्वितीयमध्ययनं टिप्पितमिति । ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy