________________
श्री. सुमति
अगन्धना नागा:
साधु दशवै. अ०२
'आयावयाही ति संयमगेहान्मनसोऽनिर्गमार्थमातापय-आतापनां कुरु, एकग्रहणे तज्जातीयग्रहणमिति न्यायात यथानुरूपमूनोदरतादेरपि विधिः, अनेनात्मसमुत्थदोषपरिहारमाह-तथा त्यज सौकुमार्य-परित्यज सुकुमारत्वं, अनेन तूमयसमुत्थदोपपरिहारमाह, तथाहि-सौकुमार्यात् कामेच्छा प्रवर्तते योषितां च प्रार्थनीयो भवति, एवमुभयासेवनेन कामान् क्रम-उलंघय, यतस्तैः क्रान्तैः क्रान्तमेव दुःखं भवतीति शेषः, खुशब्दोऽवधारणे, कामनिवन्धनत्वाद् दुःखस्य, अधुना अनन्तरं कामक्रमणविधिमाह-छिद्धि द्वेष-व्यपनय रागं सम्यगज्ञानवलेन विपाकालोचनादिना, एवं कृते फलमाह-एवंअनेन प्रकारेण वर्तमानः किं-'सुखमस्यास्तीति सुखी भविष्यसि, क, संपराये-संसारे यावदपवर्ग न प्राप्स्यसि तावत् सुखी भविष्यसि, संपराये-परीषहोपसर्गमाम इत्यन्यः ।। १० ।। किंच-संयमगेहान्मनस एवानिर्गमार्थमिदं चिन्तयेत्पक्खंदे जलियं जोइं, धूमकेउं दुरासयं । नेच्छंति वंतयं भोत्तुं, कुले जाया अगंधणे ॥ ११ ॥
पक्वंदे 'त्यादि, प्रस्कन्दन्ति-अध्यवस्यन्ति ज्वलितं-ज्वालामालाकुलं, न मुर्मरादिरूपं, के ? ज्योतिष-अग्निं धूमकेतु-धूमध्वज नोल्कादिरूपं, दुराशयं-दुःखेनासाद्यते-अभिभूयत इति दुरासदस्त, दुरभिमवमित्यर्थः, चशब्दलोपात , 'न चेच्छन्ति वान्तं भोक्तुं' परित्यक्तमत्तुं, विषमिति गम्यते, के ?, नागा इति गम्यते, एवं किंविशिष्टाः १, कुले जाता:-समुत्पन्ना अगन्धने, नामानां हि भेदद्वयं-गन्धना अगन्धनाच, तत्र गन्धना नाम डसिए मंतेहिं आयड्डिया तं विसं वणमुहाओ आवियन्ति, अगन्धणा उण अवि मरणमज्झवसन्ति न य वंतमावियंति, उपसंहारस्त्वेवं भावनीयः-यदि तावत् तिर्यश्चोऽप्यभिमानमात्राद् अपि जीवितं परित्यजन्ति, न च वान्तं भुञ्जते, तत्कथमहं जिनवचनाभिज्ञो विपाकदारुणान्
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org