SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्री सुमति साधु० दशव ० अ० २ ॥ ७ ॥ Jain Education Intern यत्रासावास्ते, प्राप्तस्य तं ग्रामं जलानयनाय बहिर्ग्रामवाप्यामत्रान्तरे तस्यासौ प्रियतमा समायाता, त्रिलोकितोऽसौ तया, तत्र दृष्टमात्रः प्रत्यभिज्ञातः, न च तेन सा प्रत्यभिज्ञाता, कृते च वन्दने परिपृष्टाऽसौ यथा-भद्रे ! जानासि त्वममुकस्य वणिजः सुतां सा च तस्मिन् प्रव्रजिते समाकर्णितधर्मा सज्जातपरमवैराग्या संयोगानां दुःखबहुलतां परिकल्पयन्ती प्रव्रजितुकामा परिचिन्तितवती - यादृशान्यस्य चिह्नानि समवलोक्यन्ते तादृशो विषयोन्मुखमस्य चेतः समभिलक्ष्यते, ततश्च विषयासक्तयोरावयोरवश्यं भविष्यति दुर्गतिपातः, तदयमात्मा च ततो मया परिरक्षणीय इति सम्प्रधार्य तं प्रति जगाद -मो साधो ! सा मातापितृभिरन्यस्मै दत्ता, तत् श्रुत्वाऽसौ समचिन्तयत्, यथा-सत्यमहं भगवद्भिः साधुभिः पाठितो- "न सा महं नोऽवि अपि तीसे, " इति परिभावयन् परमसंवेगं गतः, तां जगाद - भद्रे ! तस्याः कारणेन जन्मान्तरकोटिभिरपि दुरापं भगवता - माचार्याणां पादपद्मं विहाय विषयाभिलाषी समागतोऽहं तत्पार्श्वे, दुष्टं चेष्टितमत इतः स्थानादेव ब्रजाम्यहं गुरूणामन्तिके, ततः सा तं प्रत्यवादीत्-मुने ! शोभनमुक्तवानसि यतः असारा विषयाभिलाषाः, करिकलभ श्रवणमित्र चश्चलमायुः, प्रतिक्षणध्वंसी देहः, अकृतधर्माणां ध्रुवो नरकपात इत्यादि तमनुशिष्य, कथयित्वा चात्मानं सञ्जातवैराग्यं तं प्रेषयामास गुरूणामन्तिके, स्थिरीभूतच कृतवान् प्रव्रज्यां, एवमात्मा सन्धारणीयो यथा तेनेति ॥ ९ ॥ एवं तावदान्तरो मनोनिग्रहविधिरुक्तो, न चायं बाह्यमन्तरेण कर्तुं शक्यते, अतस्तद्विधानार्थमाह आयवयाहि चय सोगमलं, कामे कमाही कमियं खु दुक्खं । छिंदाहि दोसं विणएज रागं, एवं सुही होहिसि संपराए ॥ १० ॥ For Private & Personal Use Only मनोनिग्रहविधिः ॥ ७ ॥ | www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy