SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्री. सुमति मनोनिग्रहविधिः साधु दशवै० अ०२ ग्रहणं प्रतिसमयं त्यागपरिणामवृद्धिसंसूचनार्थ, भोगग्रहणं तु सम्पूर्ण भोगग्रहणाथं त्यक्तोपनतभोगसंसूचनार्थ वा, ततश्च ईदृशः, हुशब्दस्यावधारणार्थत्वात् स एव त्यागीत्युच्यते, भरतादिवद्, इति ॥८॥ समाइ पेहाइ परिवयंतो, सिया मणो निस्सरई बहिद्धा ।। न सा महं नो वि अहंपि तीसे, इच्चेव ताओ विणइज रागं ॥ ९ ॥ 'समाइ पेहाइ' इति, तस्यैवं त्यागिनः सम-आत्मपरतुल्यतया प्रेक्षते अनयेति प्रेक्षा-दृष्टिस्तया प्रेक्षया-दृष्ट्या परि-समन्तात् व्रजतो-गुरूपदेशादिना संयमयोगेषु वर्तमानस्येत्यर्थः, स्यात्-कदाचिदचिन्त्यत्वात् कर्मगतेर्मनो निःसरति बहिर्धा भुक्तभोगिनः पूर्वक्रीडितस्मरणादिना अभुक्तभोगिनश्च कुतूहलादिना मन:-अन्तःकरणं निस्सरति-निगच्छति बहिर्धा-संयमयोगादहिरित्यर्थः, तदा प्रशस्ताध्यवसायेनासौ अशुभसङ्कल्पः परिस्थगनीयः, केनालम्बनेनेति ? यस्यां रागः सम्पन्नस्तां प्रति चिन्तनीयं 'न सा मम, नाप्यहं तस्याः' पृथकर्मफलभुजो हि प्राणिन इति, एवं ततस्तस्याः सकाशाद् व्यपनयेत राग, तत्वदर्शिनो हि स निवर्तत एवेति ॥ अत्रोदाहरणं (१०१) यथैको वणिकपुत्रः सञ्जातपरमवैराग्यो विचिन्त्य संसारासारतां नवे वयसि वर्तमानो विहाय यौवनश्रिया समलतां स्त्रियं प्रव्रज्यामग्रहीत् । स च कैश्विद्वासरैः समतिक्रान्तः विधिना विहितसूत्रप्रणिधान इदं सूत्रमुद्घोषयामास-"न सा महं नोऽवि अहंपि तीसे" तेन च पठता समचिन्ति-यथा सा मम अहमपि तस्याः, यतोऽसावत्यन्तं ममानुरक्ता, ततः कथमहं तां प्राणात्ययेऽपि परित्यजामीति सम्प्रचार्य चेतसि गुरूणां किंवदतीमात्मीयामनिवेद्य गृहीतपात्राद्युपकरण एच गतस्तं ग्राम ला॥६॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy