SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ धामण्या श्रीसुमतिसाधु दशवै० अ०२ भावकारणम् 'नानापिंडरता' नाना-अनेकप्रकाराभिग्रहविशेषात् प्रतिगृहमल्पाल्पग्रहणाच पिण्ड:-आहारादिपिण्डः, नाना चासो पिण्डश्च अन्तप्रान्तादिर्वा तस्मिन् रताः-अनुद्वेगवन्तः, 'दांता' इन्द्रियदमेन दान्ता इति पदेऽसौ वाक्यशेषो द्रष्टव्यः, ईर्यादिसमिताच, ततश्चार्थोऽयं यथा भ्रमरोपमया एषणासमिती यतन्ते, तथा ईर्यादिष्वपि त्रसस्थावरभूतहितं यतन्ते, साभाविकं-पारमार्थिक, ते च साधव इति, पाठान्तरं वा, 'तेनोच्यन्ते साधव' इति येन कारणेन मधुकरसमाना उक्तन्यायेनभमरतुल्याः ॥५॥ इतिः परिसमाप्तौ, ब्रवीमीति न स्वमनीषिकया, किन्तु तीर्थकरगणधरोपदेशेनेति ।। द्रुमपुष्पिकाध्ययनं समाप्तम् १॥ -> )- व्याख्यातं द्रमपुष्पिकाध्ययनम् , अधुना श्रामण्यपूर्विकाख्यमारम्यते, अस्यैवममिसम्बन्धः इहानन्तराध्ययने धर्मप्रशंसोक्ता, सा चेहैव जिनशासन इति, इह तु तदभ्युपगमे सति मा भूदभिनवप्रवजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्येतदुच्यते, अनेन सम्बन्धेनायातमिदमत्राध्ययनम्कहन्नु कुजा सामन्नं, जो कामे न निवारए। पए पए विसीयंतो, संकप्पस्स वसं गओ ॥६॥ _ 'कहण्णु' इति कथं नु कुर्यात् श्रामण्यं-श्रमणभावं यः कामान् न निवारयति, 'कथं' केन प्रकारेण, नुः क्षेपे, यथा कथं नु स राजा ? यो न रक्षति प्रजां, कथं नु स वैयाकरणो योऽपशब्दं प्रयुक्त, एवं कथं नु कुर्यात् श्रामण्य-श्रमण| भावं यः कामान् न निवारयति', कारणमाह-'पदे पदे विषीदन् सङ्कल्पस्य वशङ्गतः कामानिवारणेन्द्रियाद्यपराध Jain Education Inter For Private Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy