________________
सुमतिसाधु० श्रीदato चू० २
॥२१२॥
Jain Education Inter
स्माद्विपरीत आश्रवः - इन्द्रियविजयादिरूपः परमार्थपेशलः कायवाङ्मनोव्यापारः, आश्रमो वा व्रतग्रहणादिरूपः सुविहितानां - साधूनां, उभयलोके फलमाह-अनुश्रोतः संसारः शब्दादिविषयानुकूल्यं संसार एव, कारणे कार्योपचाराद्, यथा “विषं मृत्युः, दधि पुषी प्रत्यक्षो ज्वरः, " प्रतिश्रोत उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी " सुपां सुपो भवन्तीति " वचनात्, तस्मात्संसारादुत्तारः उत्तरणमुत्तारो, हेतौ फलोपचारात्, यथा- "आयुर्धृतं तन्दुलान्वर्षति पर्जन्य" इति ॥५०२॥ तम्हेति, यस्मादेतदेवमनन्तरोदितं तस्मादाचारपराक्रमेणेत्याचारे- ज्ञानादौ पराक्रम: - प्रवृत्तिबलं यस्य स तथाविध इति गमकत्वाद्बहुव्रीहि:, तेनैवंभूतेन साधुना संवरसमाधिबहुलेनेति - संवरे - इन्द्रियादिविषये समाधिः - अनाकुलत्वं बहुलं - प्रभूतं यस्य स तथाविध इति, समासः पूर्ववत् तेनैवंविधेन सताऽप्रतिपाताय विशुद्धये च किमित्याह-चर्या - भिक्षु भावसाधनी ह्या नियतवासादिरूपा गुणाश्च-मूलोतरगुणरूपाः, नियमाश्च - उत्तरगुणानामेव पिण्डविशुद्धयादीनां स्वकाला सेवन नियोगा भवन्ति साधूनां द्रष्टव्या इति, एते चर्यादयः साधूनां द्रष्टव्या भवन्ति, सम्यग्ज्ञानासेवनप्ररूपणारूपेणेति ॥ ५०३ ॥ अनि अवासो समुआणचारिआ, अन्नायउञ्छं परिक्कया अ । अप्पोवही कलहविवज्जणा य, विहारचरिआ इसिणं पसत्था ॥ ५०४ ॥ आइन्ओमाणविवज्जणा अ, ओसन्नदिट्ठाहडभत्तपाणे । संसकपेण चरिज भिक्खू, तज्जायसंसट्ट जई जइज्जा ॥ ५०५ ॥
For Private & Personal Use Only
उपदेशः
गा. ५०४.
५०५
॥२१२॥
www.jainelibrary.org