________________
सुमति
साधु
मिक्षुमाव
फलम्
श्रीदशवै० अ०१०
गा.४७९
॥ १९६॥
रूपवान् , आदेयः, न लाभमत्तो यथाऽहं लाभवान् , न श्रुतमत्तो यथाऽहं पण्डितः, अनेन कुलमदादिपरिग्रहः, अत एवाहमदान् सर्वानपि कुलादिविषयान्विवर्य-परित्यज्य धर्मध्यानरतो-यो यथागमं तत्र सक्तः स भिक्षुरिति ॥ ४७९ ॥ किंच-पवेयए इत्यादि, प्रवेदयति-कथयत्यार्यपदं-शुद्धधर्मपदं परोपकाराय महामुनि:-शीलवान् ज्ञाता एवंभूत एव वस्तुतो नान्यः, किमित्येतदेवमित्याह-धम्में स्थितः स्थापयति परमपि-श्रोतारं, तत्रादेयभावप्रवृत्तेः, तथा निष्क्रम्य वर्जयति कुशीललिंग-आरम्भादि कुशीलचेष्टितं, तथा न चापि हास्यकुहको-न हास्यकारिकुहकयुक्तो यः स भिक्षुरिति ।। ४८०॥ भिक्षुभावफलमाह-तं देहेति, तं देहवासमित्येवं प्रत्यक्षोपलभ्यमानं चारकरूपं शरीरावासमशुचिं शुक्रशोणितोद्भवत्वादिना, अशाश्वतं प्रतिक्षणपरिणत्या सदा त्यजति ममत्वानुबन्धपरित्यागेन, क इत्याह-नित्यहितेमोक्षसाधने सम्यग्दर्शनादौ स्थितात्मा-अत्यन्तसुस्थितः, स चैवंभृतश्छिच्चा जातिमरणस्य संसारस्य वन्धनं-कारण| मुपैति-सामीप्येन गच्छति भिक्षुः-यतिरपुनरागमां नित्यां जन्मादिरहितामित्यर्थः, गतिमिति-सिद्धिगतिम् ॥ ४८१॥ ब्रवीमीति पूर्ववत् ।। इति व्याख्यातं सभिश्वध्ययनम् १० ॥
अधुनौघतथूडे आरम्येते, अनयोश्चायमभिसम्बन्ध इहानन्तराध्ययने भिक्षुगुणयुक्त एव भिक्षुरुक्तः, स चैवंभूतोऽपि कदाचिकर्मपरतन्त्रत्वात् कर्मणश्च बलवत्त्वात् सीदेव , अतस्तत्स्थिरीकरणं कर्तव्यमिति, तदर्थाधिकार एव चूडाद्वयमभिधीयते, तच्चेदं
इह खल्लु भो! पवइएणं उप्पन्नदुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पहिणा
Jain Education Interation
For Private & Personel Use Only
Aaw.jainelibrary.org