________________
भिक्षु
सुमति साधु० मीदशवै०
स्वरूपम् गा. ४७६
४८१
॥ १९५॥
छिंदित्तु जाईमरणस्स बंधणं, उवेइ भिक्खू अपुणागमं गई ।। ४८१ ॥ तिबेमि॥
___ सभिक्खुअज्झयणं दसमं समत्तं १०॥ तथा उवहिंमित्ति, उपधौ-वस्त्रादिलक्षणे अमूच्छितः-तद्विषयमोहत्यागेन अगृद्धः-प्रतिबन्धाभावेन, अज्ञातोञ्छ चरति भावपरिशुद्धं, स्तोकं स्तोकमित्यर्थः पुलाकनिष्पुलाका-संयमासारतापादकदोषरहितः, क्रयविक्रयसंनिधिभ्यो विरता-द्रव्यभावभेदभिन्नक्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्तः, सर्वसङ्गापगतश्च योऽपगतद्रव्यभावसङ्गश्च यः, स भिक्षु. रिति ॥ ४७६ ॥ किंच-अलोलेति, अलोलो नाम नाप्राप्तप्रार्थनापरो भिक्षुः-साधुन रसेषु गृद्धः, प्राप्तेष्वपि अप्रतिबद्ध इति भावः, उञ्छं चरति भावोछमेवेति पूर्ववत् । नवरं तत्रोपधिमाश्रित्योक्तमिह स्वाहारमित्यपौनरुत्यं । तथा जीवितं नाभिकाङ्कते असंयमजीवितं, तथा ऋद्धिं च-आमाँपध्यादिरूपा, सत्कारं-वस्त्रादिभिः, पूजनं च-स्तबादिना त्यजति नैतदर्थ एव यतते, स्थितात्मा ज्ञानादिषु, अनिभ इत्यमायो यः स भिक्षुरिति ॥ ४७७ ॥ तथा न परमिति, न परं स्वपक्षविनेयव्यतिरिक्तं वदति-अयं कुशीलस्तदप्रीत्यादिदोषप्रसङ्गात् , स्वपक्षविनेयं तु शिक्षाग्रहणबुद्ध्या वदत्यपि, सर्वथा येनान्यः कश्चित्कुप्यति न तद्ब्रवीति दोषसद्भावेऽपि, किमित्यत आह-ज्ञात्वा प्रत्येकं पुण्यपापं, नान्यसम्बन्धि अन्यस्य भवति अग्निदाहवेदनावत् , एवं सत्स्वपि गुणेषु नात्मानं समुत्कर्षति-न स्वगुणैर्वमायाति यः स भिक्षुरिति ॥ ४७८ ॥ मदप्रतिषेधार्थमाह-न जाइमत्तेति, न जातिमत्तो यथाऽहं ब्राह्मणः क्षत्रियो वा, न चापि रूपमत्तो यथाऽहं
॥ १९५॥
Jain Education Internet
For Private
Personal Use Only
www.jainelibrary.org