________________
सुमति०
साघु० श्रीदशचै०
अ० १०
॥ १९३ ॥
Jain Education International
एतदेव स्पष्टयति-पडिमंति, प्रतिमां- मासादिरूपां प्रतिपद्य - सविधिमङ्गीकृत्य स्मशाने पितृवने, न विभेति न भयं याति, भैरवभयानि दृष्ट्वा - रौद्र भयहेतू नुपलभ्य वैतालिकादिरूपशब्दादि, विविधगुणतपोरतश्च नित्यं मूलगुणाद्यनशनादिसक्त सर्वकालं न शरीरमभिकाङ्क्षते निःस्पृहतया वार्त्तमानिकं भावि च य इत्थंभूतः स भिक्षुरिति ॥ ४७२ ॥ असइंति, न सकृदसकृत्सर्वदैवेत्यर्थः किमित्याह - व्युत्सृष्टत्यक्तदेह :- व्युत्सृष्टो भावप्रतिबन्धाभावेन, त्यक्तो - विभूषाकरणेन, देह: - शरीरं येन स तथाविधः, आक्रुष्टो वा ज ( य ) कारादिना, हतो वा दण्डादिना, लूषितो वा खड्गादिना, भक्षितो वा शृगालादिना, पृथिवीसमः - सर्वसहो मुनिर्भवति, न च रागादिना पीडयते, तथाऽनिदानो - भाविफलाशंसारहितः, अकुतूहलश्च नटादिषु य एवंभूतः स भिक्षुरिति ॥ ४७३ || भिक्षुस्वरूपाभिधानाधिकार एवाह-अभिभूयत्ति, अभिभूय - पराजित्य, कायेन शरीरेणापि न भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कायेनानभिभवे तवतस्तदनभिभवात्, परीषहान् क्षुदादीन्, समुद्धारयत्युत्तारयति, जातिपथात् संसारमार्गादात्मानं कथमित्याहविदित्वा - विज्ञाय, जातिमरण-संसारमूलं महाभयं महाभयकारणं, ततः- तपसि रतः सक्तः किंभूतः १ इत्याहश्रामण्ये - श्रमणानां सम्बन्धिनि, शुद्ध इति भावः, य एवंभूतः स भिक्षुरिति ॥ ४७४ ॥ इत्थति, हस्तसंयतः पादः संयत इति, कारणं विना कूर्मवल्लीन आस्ते, कारणे च सम्यग्गच्छति, तथा वाक्संयतः - अकुशलवाग्निरोधात् कुशलवागुदीरणेन संयतेन्द्रियो - निवृत्तविषयप्रसरः अध्यात्मरतः - प्रशस्तध्यानासक्तः, सुसमाहितात्मा ध्यानापादकगुणेषु, तथा सूत्रार्थं च यथावस्थितं विधिग्रहणशुद्धं विजानाति यः सम्यग्यथाविषयं स मिक्षुरिति ।। ४७५ ।।
१७
For Private & Personal Use Only
भिक्षु
स्वरूपम्
गा. ४७२४७५
॥ १९३ ॥
www.jainelibrary.org