________________
सुमति
साधु० श्रीदशचै०
अ० १०
॥१९१॥
Jain Education International
मनोवाक्कायसुसंवृतः- तिसृभिर्गुप्तिभिर्गुप्तो यः स भिक्षुरिति ||४६७॥ किं च-तहेव असणंति, तथैवेति पूर्वर्विविधानेनाशनं पानं च प्रागुक्तस्वरूपं तथा विविधमनेकप्रकारं खाद्यं स्वाद्यं च प्रागुक्तस्वरूपमेव लब्ध्वा - प्राप्य, किमित्याहभविष्यत्यर्थः - प्रयोजनमनेन श्वः परश्वो वेति तद्-अशनादि न निघत्ते-न स्थापयति स्वयं, तथा न निधापयति-न स्थापयत्यन्यैः, स्थापयन्तमन्यं नानुजानाति यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति ॥ ४६८ ॥ किंच तहेवति, तथैवाशनं पानं च विविधं खाद्यं स्वाद्यं च लब्ध्वेति पूर्ववत् लब्ध्वा किमित्याह-छन्दित्वा निमन्त्रय समानधार्मिकान् साधून् भुङ्क्ते, स्वात्मतुल्यत्वाद्वात्सल्यसिद्धेः, तथा भुक्तत्वा स्वाध्यायरतश्च यः चशब्दो विशेषानुष्ठानपरच यः स भिक्षुरिति ॥ ४६९ ।। भिक्षुलक्षणाधिकार एवाह-न ये चि न च वैग्रहिकीं- कलहप्रतिबद्धां कथां कथयति, सद्वादकथादिष्वपि न च कुप्यति परस्यापि तु निभृतेन्द्रियोऽनुद्धतेन्द्रियः प्रशान्तो-रागादिरहित एवास्ते, तथा संयमे-पूर्वोक्ते ध्रुवं सर्वकालं योगेन - कायवाङ्मनः कर्मलक्षणेन युक्तः - योगयुक्तः, प्रतिमेदमौचित्येन प्रवृत्तेः, तथोपशान्तोऽनाकुलः कायचापलादिरहितः, अविहेठकः न क्वचिदुचितेऽनादरवान् क्रोधादीनां विश्लेषक इत्यन्ये, ये इत्थंभूतः स भिक्षुरिति ॥ ४७० ॥
जो सहइ हु गामकण्टए, अक्कोसपहारतजणाओ य ।
भयभेरवसद्द सप्पहासे, समसुहदुक्खसहे य जे स भिक्खू ॥ ४७१ ॥
For Private & Personal Use Only
भिक्षु
स्वरूपम् गा. ४७१
॥१९१॥
www.jainelibrary.org