________________
सुमति
मिन
स्वरूपम्
साधु श्रीदशवै० अ० १० ॥१८८॥
गा०४६४. ४६५
तम्हा उद्देसि न भुंजे, नोऽवि पए न फ्यावए जे स भिक्खू ॥ ४६४ ॥ रोइअ नायपुत्तवयणे, अप्प(च)समे मन्नेज छप्पि काए।
पंच य फासे महत्वयाई, पंचासवसंवरे जे स भिक्खू ॥ ४६५॥ किंच-निक्खम्मेति, निष्क्रम्य-द्रव्यभावगृहात , प्रव्रज्यां गृहीत्वेत्यर्थः आज्ञया-तीर्थकरगणधरोपदेशेन योग्यतायां सत्या, निष्क्रम्य किमित्याह-बुद्धवचने-अवगततवतीर्थकरगणधरवचने नित्यं-सर्वकालं चित्तसमाहितश्चित्तेनातिप्रसन्नो भवेत् , प्रवचन एवाभियुक्त इति गर्भः। व्यतिरेकतः समाधानोपायमाह-स्त्रीणां सर्वासामसत्कार्यनिवन्धनभूतानां वशंतत्परतन्त्रता(तदायत्तता)रूपं न चापि गच्छेत् , तदशगो हि नियमतो वान्तं प्रत्यापिबति, अतो बुद्धवचनचित्तसमाधानतः सवथा स्त्रीवशत्यागात् , अनेनैवोपायेन, अन्योपायासम्मवात, वान्तं-परित्यक्तं सद्विषयजम्बालं न प्रत्यापिवति-न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते यः स भिक्षुर्भावभिक्षुरिति ॥ ४६१ ॥ तथा पुढवीति, पृथ्वी-सचेतनादिरूपां न खनति स्वयं, न खानयति परैः, "एकग्रहणे तजातीयग्रहणमि"ति खनन्तमप्यन्यं नानुजानातीति, एवं सर्वत्र वेदितव्यं, शीतोदकं-सचित्तं पानीयं न पिबति स्वयं, न पाययति परान्, अग्निः षड्जीवघातकः, किंवदित्याह-शस्त्रं-खगादि | यथा सुनिशितमुज्ज्वालितं तद्वत् , तं न ज्वालयति स्वयं, न ज्वालयति परैः, य इत्थंभूतःस भिक्षुरिति, आह-षड्जीवनिकायादिषु सर्वाध्ययनेष्वयमर्थोऽभिहितः किमर्थ पुनरुक्त इति?, उच्यते, तदुक्तार्थानुष्ठानपर एव भिक्षुरिति ज्ञापनार्थ,
| ॥१८॥
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org