SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु० श्रीदश० अ० ९, उ० ४ ॥१८६॥ Jain Education International उक्तः तपःसमाधिः, आचारसमाधिमाह - चउव्विहा इत्यादि, चतुर्विधः खल्वाचारसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, नेहलोकार्थमित्याद्याचाराभिधानभेदेन पूर्ववत्, यावन्नान्यत्रार्हतैरर्हत्सम्बन्धिभिर्हेतुभिरनाश्रवत्वादिभिः आचारं - मूलगुणोत्तरगुणमयमधितिष्ठेत्, निरीहः सन् यथा मोक्ष एव भवतीति चतुर्थ पदं भवति । २० । भवति चात्र श्लोक इति पूर्ववत् स चायं - जिणवयणरए इत्यादि, जिनवचनरतः - आगमे सक्तः, अतिन्तिन:- न सकृत्किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता, प्रतिपूर्णः सूत्रादिना, आयतमायातार्थिकः - अत्यन्तं मोक्षार्थी आचारसमाधिसंवृत इत्याचारे यः 'समाधिस्तेन स्थगिताश्रवद्वारः सन् भवति च दान्त - इन्द्रियनोइन्द्रियदमाभ्यां भावसन्धको - भावो - मोक्षस्तत्सन्धक आत्मनो मोक्षासनकारीति ।। ४५८ ।। सर्वसमाधिफलमाह-अभिगमेति, अभिगम्य-विज्ञायासेन्य च चतुरः समाधी - ननन्तरोदितान्, सुविशुद्ध मनोवाक्कायैः सुसमाहितात्मा सप्तदशविधे संयमे, स एवंभूतो धर्मराज्यमासाद्य विपुलहितसुखावहं पुनरिति विपुलं विस्तीर्ण हितं तदात्वे आयत्यां च पथ्यं सुखमावहति प्रापयति यत्तत् तथाविधं करोत्यसौ साधुः पदं स्थानं, क्षेमं - शिवं, आत्मन एव, न त्वन्यस्येति अनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति ॥ ४५९ ॥ एतदेव स्पष्टयति- जाइ इति, जातिजरामरणात् - जन्मजरामरणात्संसारान्मुच्यते, असौ सुसाधुरित्थंस्थं चेति इदंप्रकारमापन्नमित्थं इत्थं तिष्ठतीतीत्थंस्थं - नारकादिव्यपदेशबीजं वर्णसंस्थानादि तच्च चएह-त्यजति सर्वशः सर्वैः प्रकारैरपुनर्ब्रहण तथा, एवं सिद्धो वा कर्मक्षयात् सिद्धो भवति, शाश्वतोऽपुनरागामी सावशेषकर्मा देवो वाऽल्परतः - पामापरिगत कण्डूयनकल्परतरहितो महर्द्धिकः - अनुत्तरवैमानिकादिः ।। ४६० ॥ ब्रवीमीति पूर्ववत् ।। इति विनयसमाधौ चतुर्थ उद्देशकः ॥ For Private & Personal Use Only समाधि फलम् सू० २०, गा. ४५८ ४६० १८६॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy