________________
सुमति- साधु श्रीदशबैक
श्रुतसमाधिः
गा.४५६
उ०४
॥१८॥
बुध्यते, तच्चावबुद्धं सत्पुनरधितिष्ठति-यथावत्करोति, न च कुर्वमपि मानमदेन-मानगर्वेण माद्यति-मदं याति, विनयसमाधौ-विनयसमाधिविषये आयतार्थिका-मोक्षार्थीति ॥ ४५५ ॥
चउबिहा खलु सुयसमाही भवइ, तंजहा-सुयं मे भविस्सइत्ति अज्झाइयव्वं भवइ १, एगग्गचिचोभविस्सामित्ति अज्झाइयवयं भवइ २, अप्पाणं ठावइस्सामित्ति अज्झाइयवयं भवड ३.ठिओ परं ठावइस्सामित्ति अज्झाइयव्वयं भवइ४ चउत्थं पयं भवइ।सू०१८। भवइ य एत्थ सिलोगोनाणमेगग्गचित्तो य, ठिओ अ ठावई परं । सुयाणि य अहिजिता, रयो सुयसमाहिए ॥४५६॥
उक्तो विनयसमाधिः, श्रुतसमाधिमाह-चउब्विहा इत्यादि, चतुर्विधः खलु श्रुतसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः । श्रुतं मे आचारादि द्वादशाचं भविष्यतीत्यनया बुद्ध्या अध्येतव्यं भवति, न गौरवाद्यालम्बनेन १, तथा अध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि न च विप्लुतचित्त इत्यध्येतव्यं भवति अनेन चालम्बनेन २, तथाऽध्ययनं कुर्वन् विदितधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन चालम्बनेनाध्येतव्यं भवति ३, तथा अध्ययनफलात स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेन चालम्बनेनाध्येतव्यं ४ चतुर्थ पदं भवति ।१८। भवति चात्र श्लोक इति पूर्ववत् , स चायं नाणमिति, ज्ञानमित्यध्ययनपरस्य ज्ञानं भवत्येकाग्रचित्तश्च तत्परतया एकाग्रालम्बनश्च भवति, स्थित इति विवेकाद्धर्मस्थितो भवति, स्थापयति परमिति स्वयं धर्मस्थितत्वादन्यमपि स्थाप
॥१८॥
Jain Education Inter
For Private 3 Personal Use Only
www.jainelibrary.org