________________
सुमति
साधु
श्रीदसवै
॥१८॥
जितेन्द्रिया:-जितचक्षुरादिभावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेतदिति ।। ४५४ ॥
विनयचउबिहा खल्लु विणयसमाही हवइ, तंजहा-अणुसासिजंतो सुस्सूसइ १, सम्मं संपडि
समाधिः वज्जइ २, वेयमाराहइ ३, न य भवइ अत्तसंपग्गहिए ४ चउत्थं पयं भवइ । सू०१७। भवइ
सू०१७,
गा.४५५ य एत्थ सिलोगो-पेहेइ हियाणुसासणं, सुस्सूसई तं च पुणो अहिट्ठए। न य माणमएण मजई, I विणयसमाही आययट्टिए ॥ ४५५॥
विनयसमाधिमभिधित्सुराह-चउबिहेत्यादि, चतुर्विधः खलु विनयसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, अणुसासिनतो इत्यादि, अनुशास्यमानस्तत्र तत्र चोद्यमानः शुश्रूषति-तदनुशासनमर्थितया श्रोतुमिच्छति १, इच्छाप्रवृत्तितः तत् सम्यक्सम्प्रतिपद्यते, सम्यग्-अविपरीतमनुशासनतत्त्वं यथाविषयमवबुध्यते २, स चैवं विशिष्टप्रतिपत्तेरेव | वेदमाराधयति, वेद्यते अनेनेति वेदः-श्रुतज्ञानं तद्यथोक्तानुष्ठानपरत्या सफलीकरोति ३, अत एव विशुद्धप्रवृत्तेने च
भवत्यात्मसंप्रगृहीत:-आत्मा एव सम्यक् प्रकर्षण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना स तथा, अनात्मोस्कर्षप्रधानत्वाद्विनयादेः, न चैवंभूतो भवतीति अभिप्रायः, चतुर्थ पदं भवतीत्येतदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति ४।१७। भवति चात्र श्लोकः, अत्रेति विनयसमाधौ श्लोकः-छन्दोविशेषः, स चाय-पेहेइत्तिप्रार्थयते हितानुशासनं-इच्छति इहलोकपरलोकोपकारिणमाचार्यादिभ्य उपदेशं, शुश्रूषतीत्यनेकार्थत्वात् यथाविषयमव- Hd॥१८॥
Jain Education Internation
For Private & Personel Use Only
Twww.jainelibrary.org