SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ सुमति० साधु० श्रीदशनै० अ० ९, उ० ३ ॥ १७९ ॥ Jain Education Internat अवधारिणीं - अशोभन एवायमित्यादिरूपां अप्रीतिकारिणीं च श्रोतुर्मृतनिवेदनादिरूपां भाषां वाचं न भाषेत सदा यः कदाचिदपि नैव ब्रूयात्स पूज्य इति ॥ ४४७ ॥ तथा-अलोलुपत्ति, अलोलुपः- आहारादिषु अलुब्धः, अकुहकइन्द्रजालादिकुहकरहितः, अमायी - कौटिल्यशून्यः, अपिशुनश्चापि न छेदभेदकर्त्ता अदीनवृत्तिः- आहाराद्यला मेsपि शुद्धवृत्तिर्नो भावयेदकुशलभावनया परं, यथा-अमुकपुरतो भवताऽहं वर्णनीयः, नापि च भावितात्मा स्वयमन्य पुरतः स्वगुणवर्णनापर: अकौतुकच सदा नटनर्त्तकादिषु यः स पूज्य इति ॥ ४४८ ॥ किंच-गुणेहिंति, गुणैरनन्तरोदितैविनयादिभिर्युक्तः साधुर्भवति, तथा अगुणैरुक्तगुणविपरीतैरसाधुः, एवं सति " गृहाण साधुगुणान् मुञ्श्चासाधुगुणांचे " ति शोभन उपदेशः, एवमधिकृत्य प्राकृतशैल्या विज्ञापयति- विविधं ज्ञापयत्यात्मानमात्मना यस्तथा रागद्वेषयोः समो न रागवान्न द्वेषवान्निति स पूज्य इति । ४४९ ।। किंच - तहेवेति, तथैवेति पूर्ववत् डहरं वा महल्लकं वा, वाशब्दान्मध्यमं वा स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा प्रव्रजितं गृहिणं वा, वाशब्दात्तदन्यतीर्थिकं वा, न हीलयति, नापि विसयति, तत्र सूयया असूयया वा, सकदुष्टाभिधानं हीलनं, तदेवासकृत् खिसनमिति, हीलनखिंसनयोश्च निमित्तभूतं स्तम्भं च मानं च क्रोधं च रोषं च त्यजति यः स पूज्यः, निदानत्यागेन तत्वतः कार्यत्यागादिति ।। ४५० ॥ जे माणिएत्ति, ये मानिता अभ्युत्थानादिसत्कारैः सततं - अनवरतं शिष्यान् मानयन्ति श्रुतोपदेशं प्रति चोदनादिभिः, तथा यत्नेन कन्यामिव निवेशयन्ति, यथा “ मातापितरौ कन्यां गुणैर्वयसा च संवर्ध्य योग्यभर्त्तरि स्थापयन्ति", एवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्ट्वा महत्याचार्यपदेऽपि स्थापयन्ति, तानेवंभूतान् गुरून्मानयति, योऽभ्युत्थानादिना For Private & Personal Use Only विनीतस्य पूजाईत्वम् गा. ४४७ ४५३ ॥ १७९ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy