SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ हमति साधु० पीदशक विनयो पाया: गा०४३६४३८ उ. २ ॥ १७३ ॥ विणयसमाहीए बीओ उद्देसओ समत्तो ९-२॥ किंच-विवत्तित्ति, विपत्तिरविनीतस्य ज्ञानादिगुणानां, संप्राप्तिविनीतस्य च ज्ञानादिगुणानामेव, यस्यैतत्-।। ज्ञानादिप्राप्त्यप्राप्तिद्वयं उभयत-उभयाभ्यां विनयाविनयाभ्यां सकाशाद्भवतीत्येवं ज्ञातं-उपादेयं चैतदिति भवति शिक्षाग्रहणासेवनारूपामसावित्थंभूतोऽभिगच्छति-प्राप्नोति, भावत उपादयपरिज्ञानादिति ।। ४३६ ।। एतदेव दृढयन्नविनीतफलमाह-जे यावित्ति, यश्चापि चण्डः प्रवजितोऽपि यो रोषणः मतिऋद्धिगौरव इति ऋद्धिगौरवमतिगौरवे अभिनिविष्टः पिशुन:-पृष्ठिमांसखादको नरो-नरव्यञ्जनो न भावनरः साहसिक:-अकृत्यकरणपरः हीनप्रेषणो-हीनगुर्वाज्ञापर: अदृष्टधा -सम्यगनुपलब्धश्रुतादिधर्मा विनयेऽकोविदो-विनयविषयेऽपण्डितः असंविभागी-यत्र कचन लामे न संविभागवान् , य इत्थंभूतोऽधमो नैव तस्य मोक्षः, सम्यग्दष्टेश्चारित्रवत इत्थंविधसंक्लेशाभावादिति ।। ४३७ ।। विनयफलाभिधानोपसंहरनाह-णिद्देसवत्तित्ति, निर्देशवर्तिन:-आज्ञावर्तिनः पुनर्ये गुरूणां-आचार्यादीनां श्रुतार्थधर्मा इति प्राकृतशैल्या श्रुतधर्मार्था गीतार्था इत्यर्थः, विनये कर्तव्ये कोविदा-विपश्चितः, य इत्थंभृतास्तीर्वा ते महासत्वा ओघमेनं-प्रत्यक्षोपलम्यमानं संसारसमुद्रं दुरुत्तारं तीर्चेव तीन, चरमभवं केवलित्वं च प्राप्येतिभावः, ततः क्षपयित्वा कर्म निरव शेपं भवोपनाहिसंज्ञित गतिमुत्तमा सिद्धाख्यां गताः-प्राप्ताः ॥४३८॥ इति ब्रवीमीति पूर्ववत् । विनयसमाधौ व्याख्यातो द्वितीय उद्देशकः ९-२ ।। ॥१७३ ॥ Jain Education Intera! For Private & Personal Use Only |www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy