________________
सुमतिसाधु० श्रीदशवै०
विनयाविनयफलम्
४२१
॥१६७॥
भणनादिलक्षणेनापि अपिशब्दस्य व्यवहितः सम्बन्धः, चोदित उक्तः, कुप्यति-रुष्यति नरः । अत्र निदर्शनमाह-दिव्यां- अमानुषीं, असौ-नरः श्रियं-लक्ष्मी आगच्छन्ती-आत्मनो भवन्तीं दण्डेन-काष्ठमयेन प्रतिषेधयति-निवारयति । एतदुक्तं भवति-विनयः संपदो निमित्तं, तत्र स्खलितं यदि कश्चिचोदयति स गुणः तत्रापि रोषकरणेन वस्तुतः संपदो निषेधः । उदाहरणं चात्र दशारादयः कुरूपागतश्रीप्रार्थनाप्रणय भङ्गकारिणस्तद्रहितास्तदभङ्गकारी च तद्युक्तः कृष्ण इति ॥ ४१९ ॥ IN तहेव अविणीयप्पा, उववज्झा हया गया । दीसंति दुहमेहता, आभिओगमुवट्ठिया ॥ ४२० ॥ तहेव सुविणीयप्पा, उववज्झा हया गया । दीसंति सुहमेहंता, इडिं पत्ता महायसा ॥ ४२१ ॥
अविनयदोषोपदर्शनार्थमेवाह-तहेवत्ति, तथैवेति-तथैवैते अविनीतात्मानो-विनयरहिता अनात्मज्ञाः, उपवाह्यानां-राजादिवल्लभानामेते कर्मकरा इत्वौपवाह्याः, हयाः-अश्वाः, गजाः-हस्तिनः, उपलक्षणमेतन्महिषकादीनामिति । एते किमित्याह-दृश्यन्ते-उपलभ्यन्ते, एव मन्दुरादौ अविनयदोषेणोभयलोकवतिना यवसादिवोदारा, दुःख-संक्लेशलक्षण एधमाना-अनेकार्थत्वादनुभवन्त आभियोग्यं-कर्मकरमावं उपस्थिता:-प्राप्ता इति ॥ ४२०॥ एतेष्वेव विनयगुणमाहतहेवत्ति, तथैव एते सुविनीतात्मानो-विनयवन्त आत्मज्ञा औपवाह्या-राजादीनां हया गजा इति पूर्ववत् । एते किमित्याह-दृश्यन्ते-उपलभ्यन्ते, एव सुखं-आह्लादलक्षणं, एधमाना-अनुभवन्तः शुद्धि प्राप्ता इति विशिष्टभूषणालयभोजनादिभावतः प्राप्तर्द्धयो महायशसो-विख्यातसद्गुणा इति ॥ ४२१॥
॥१६७॥
Jain Education Interie
For Private & Personel Use Only
www.jainelibrary.org