________________
विनय
गुणाः
सुमतिसाधु श्रीदशवै० अ०९,
गा. ४१६
५१७
॥१६५॥
आयरिएत्ति, महाकरा ज्ञानादिभावरत्नापेक्षया आचार्या महैषिणो-मोक्षैषिणः, कथं महैषिण इत्याह-समाधियोगश्रुतशीलवुद्धिभिः समाधियोगैः-ध्यानविशेषैः श्रुतेन-द्वादशाङ्गाभ्यासेन शीलेन-परद्रोहविरतिरूपेण बुद्ध्या च औत्पत्तिक्यादिरूपया, अन्ये तु व्याचक्षते-समाधियोगश्रुतशीलबुद्धीनां महाकरा इति । तानेवंभूतानाचार्यान् संप्राप्तुकामोऽनुत्तराणि ज्ञानादीन्याराधयेद्विनयकरणेन, न सकृदेव, अपि तु तोषयेत्-असकृत्करणेन तोषं ग्राहयेत् धर्मकामोनिर्जरार्थी, न तु ज्ञानादिफलापेक्षयेति ॥ ४१४॥ सोचाणंति, श्रुत्वा मेधावी सुभाषितानि-गुराधनफलाभिधायीनि, | किमित्याह-सुश्रूषयेत्सदाचार्यानप्रमत्तो-निद्रादिविरहितस्तदाज्ञां कुर्वीतेत्यर्थः, य एवं गुरुसुश्रूषापस स आराध्य | गुणाननेकान् ज्ञानादीन् प्रामोति सिद्धिमनुत्तरां, मुक्तिमित्या, अनन्तरं सुकुलादिपरम्परया वा॥४१५।। ब्रवीमीति पूर्ववत्॥
इति विनयसमाधायुक्तः प्रथम उद्देशकः ९-१॥ विनयाधिकारवानेव द्वितीय उच्यते, तत्रेदमादिसूत्रं
मूलाउ खंधप्पभवो दमस्स. खंधाउ पच्छा समुर्विति साहा।
साहप्पसाहा विरुहंति पत्ता, तओ सि पुष्पं च फलं रसोय ॥ ४१६ ॥ एवं धम्मस्स विणओ. मलं परमो से मक्खो। जेण कित्तिं सुयं सिग्छ, नीसेसं चाभिगच्छ॥४१७॥
मूलाउ इति, मूलादादिप्रबन्धात् स्कन्धप्रभवः-स्थुडोत्पादः, कस्येत्याह-द्रुमस्य-वृक्षस्य, ततः-स्कन्धात्सका. |
॥१६५॥
Jan Education Intern
For Private Personel Use Only
www.jainelibrary.org