SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सुमति | पदेशः साधु श्रीदशवै० अ०९, उ०१ ॥१६॥ तत्समीपे, किमित्याह-वैनयिकं प्रयुञ्जीत-विनय एव वैनयिकं तत्कुर्यादितिभावः, कथमित्याह-सत्कारयेदभ्युत्थानादिना पूर्वोक्तेन युक्तः शिरसा-उत्तमाङ्गेन प्राञ्जलि:-प्रोद्गताञ्जलिःसन् कायेन-देहेन गिरा-वाचा मस्तकेन वन्दे इत्यादिरूपया भो इति शिष्यामन्त्रणं मनसा च-भावप्रतिबन्धरूपेण नित्यं-सदैव सत्कारयेत् , न तु सूत्रग्रहण काल एव, कुशलानुबन्धव्यवच्छेदप्रसङ्गादिति ॥ ४१० ।। एवं च मनसि कुर्यादित्याह-लज्जा दयेत्ति, लज्जा-अपवादभयरूपा दया-अनुकम्पा संयमः-पृथिव्यादिजीवविषयः, ब्रह्मचर्य-विशुद्धतपोऽनुष्ठानं, एतल्ल आदि विपक्षव्यावृत्या कुशलपक्षप्रवर्तकत्वेन कल्याणभागिनो-मोक्षभागिनो जीवस्य विशोधिस्थानं-कर्ममलापनयनस्थानं वर्तते, अनेन ये मां गुरव-आचार्याः सततंअनवरतं अनुशासयन्ति-कल्याणयोग्यतां नयन्ति, तानहमेवंभृतान् गुरून सततं पूजयामि, न तेभ्योऽन्यः पूजाई इति ॥ ४१९ ।। इतश्चैते पूज्या इत्याह-जहत्ति, यथा निशान्ते-राज्यवसाने दिवस इत्यर्थः, तपन्नचिौली-सूर्यः प्रभास यति-उद्योतयति केवलं-सम्पूर्ण भारतं-भरतक्षेत्रं तुशब्दादन्यच्च क्रमेण, एवमर्चिालीवाचार्यः श्रुतेन-आगमेन, शीलेन-परद्रोहविरतिरूपेण बुद्ध्या च-स्वाभाविक्या युक्तः सन् प्रकाशयति जीवादिभावानिति । एवं च वर्तमानः सुसाधुमिः परिवृत्तो विराजते सुरमध्य इव-सामानिकादिमध्यगत इव इन्द्र इति ॥ ४१२ ।। जहत्ति, यथा शशी-चन्द्रः, कौमुदीयोगयुक्त:-कार्तिकपौर्णिमास्यामुदित इत्यर्थः, स एव विशेष्यते-नक्षत्रतारागणपरिवृतात्मा-नक्षत्रादिभिर्युक्त इति भावः, खे-आकाशे शोभते, किंविशिष्टें खे,विमले अभ्रमुक्ते-अभ्रमुक्तमेवात्यन्तं विमलं भवतीति ख्यापनार्थमेतत् , एवं चन्द्र इव गणी-आचार्यः, शोभते भिक्षुमध्ये-साधुमध्ये, अतोऽयं महत्वात्पूज्य इति ॥ ४१३ ।। किंच-महागरा ॥१६४॥ Jain Education Intem For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy