SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ SSES सुमति | गुर्वाशातनादोषः साधु श्रीदशवै० ॥१६॥ जातिपन्थानं-द्वीन्द्रियादिजातिमार्ग मन्दः-अज्ञः, संसारे परिभ्रमतीति ॥ ४०२॥ अत्रैव दृष्टान्तदान्तिकयोर्महदन्तरमित्येतदाह-आसीत्ति, आशीविषश्चापि-सर्पोऽपि परं सुरुष्टः सन्-सुक्रुद्धः सन् किं जीवितनाशात्-मृत्योः परं नु कुर्यात्न किश्चिदपीत्यर्थः, आचार्यपादाः पुनरप्रसन्ना हीलनया अनुग्रहेऽप्रवृत्ताः, किं कुर्वन्तीत्याह-अबोधिनिमित्तहेतुत्वेन मिथ्यात्वसंहति, तदाशातनया मिथ्यात्वबन्धात् , यतश्चैवमतश्चाशातनया गुरोर्नास्ति मोक्षः, अबोधि. सन्तानसम्बन्धेनानन्तसंसारिकत्वादिति ॥४०३॥ किंच-जो पावगत्ति, यः पावकं-अग्निं ज्वलितं सन्तं अपक्रामेत्अवष्टभ्य तिष्ठति, आशीविषं वापि हि-भुजङ्गमं वापि हि कोपयेत्-रोषं ग्राहयेत् , यो वा विष खादति जीवितार्थी-जीवितुकामः एषोपमा-अपायप्राप्ति प्रति एतदपमान, आशातनया कृतया गुरूणां सम्बन्धिन्या, तद्वदपायो भवतीति ।। ४०४ ।। अत्र विशेषमाह-सिया हुत्ति, स्यात्-कदाचिन्मन्त्रादिप्रतिबन्धाद् असौ पावका-अग्निः न दहेत्-न भस्मसात्कुर्यात् , आशीविषो वा भुजङ्गो-वा कुपितो वा न भक्षयेत्-न खादयेत् , तथा स्यात्-कदाचि. न्मन्त्रादिप्रतिबन्धादेव विष हालाहलं-अतिरौद्रं न मारयेत्-न प्राणांस्त्याजयेत् , एवमेतत् कदाचिद्भवति, न चापि मोक्षो गुरुहीलनया-गुरोराशातनया कृतया भवतीति ॥ ४०५ ॥ जो पव्वयंति, यः पर्वतं शिरसा-उत्तमाङ्गेन भेत्तुमिच्छेत् , सुप्तं वा सिंहं गिरिगुहायां वा प्रतिबोधयेत्, यो वा ददाति शक्त्यग्रे प्रहरणविशेषाग्रे प्रहारं हस्तेन, एषोपमाऽऽशातनया गुरूणामिति पूर्ववदिति ॥ ४०६ ॥ अत्र विशेषमाह-सिया हु त्ति, स्यात्-कदाचित्कश्चिद्वासुदेवादिः प्रभावातिशयात्-शिरसा उत्तमाङ्गेन गिरिमपि-पर्वतमपि भिन्द्यात्, स्यान्मन्त्रादिसामर्थ्यात्सिहः कुपितो ॥१६॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy