SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सुमति साधु० श्रीदश अ० ९, उ० १ ॥१६० Jain Education Intern वैचित्र्यात् तन्त्रयुक्त्यालोचनाऽसमर्थः सत्प्रज्ञाविकल इति स्वमाचार्यं ज्ञात्वा । तथा कारणान्तरस्थापितमप्राप्तवयसं डह रोऽयं - अप्राप्तवयाः खल्वयं, तथा अल्पश्रुत इत्यनधीतागम इति विज्ञाय, किमित्याह - हीलयन्ति-सूयया असूयया वा खिंसयन्ति, सूयया अतिप्रज्ञः त्वं वयोवृद्धो बहुश्रुत इति, असूयया तु मन्दप्रज्ञस्त्वमित्याद्यभिदधति, मिथ्यात्वं प्रतिपद्यमाना इति, गुरुर्न दीलनीय इति तच्वमन्यथाऽवगच्छन्तः कुन्त्याशातनां - लघुतापादनरूपां ते-द्रव्यसाधवः गुरूणां - आचार्याणां तत्स्थापनाया अबहुमानेन, एकगुर्व्वाशातनायां सर्वेषामाशातनेति बहुवचनं, अथवा कुर्वन्त्याशावनां स्वसम्यग्दर्शनादिभावापहासरूपां ते गुरूणां सम्बन्धिनीं तन्निमित्तत्वादिति ॥ ४०० ॥ अतो न कार्या हीलनेत्याहपराईए त्ति, प्रकृत्या स्वभावेन कर्मवैचित्र्यात् मन्दा अपि सद्बुद्धिरहिता अपि भवन्त्येके- केचन वयोवृद्धा अपि तथा डहरा अपि च- अपरिणता अपि च वयसा अन्ये अमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह-ये श्रुतबुद्धयुपपेतास्तदा सत्प्रज्ञावन्तः श्रुतेन बुद्धिभावेन वा भाविनीं वृत्तिमाश्रित्य अल्पश्रुता इति, सर्वथा आचारवन्तः - ज्ञानाद्याचारसमन्विताः गुणसुस्थितात्मानः- गुणेषु-संग्रहोपग्रहादिषु सुष्ठु - भावसारं स्थित आत्मा येषां ते तथाविधाः, न हीलनीयाः, ये हीलिताः - खिंसिताः शिखीव - अग्निरिवेन्धनसङ्घातं भस्मसात्कुर्युः - ज्ञानादिगुण सङ्घातमपनयेयुरिति ।। ४०१ ।। विशेषेण डहरहीलनादोषमाह-जे यावित्ति, यश्चापि कश्चिदज्ञो नागं सर्प, डहर इति- बाल इति, ज्ञात्वाविज्ञाय आशातयति-कलिञ्चादिना कदर्थयति स - कदर्थ्यमानो नागः से-तस्य कदर्थकस्य अहिताय भवति, भक्षणेन प्राणनाशनात् एष दृष्टान्तोऽयमर्थोपनय: - एवमाचार्यमपि कारणतोऽपरिणतमेव स्थापितं हीलयन् निर्गच्छति For Private & Personal Use Only गुर्वाशातनादोषः ॥ १६०॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy