________________
सुमतिसाधु श्रीदशवै०
तकर्मघनः समासादितकेवलालोको विराजते ॥ ३९८ ॥ ब्रवीमीति पूर्ववत ॥
इत्याचारप्रणिध्याख्यमष्टममध्ययनं समाप्तम् ।
विनय
विना
गा.३९९
॥१५७॥
व्याख्यातमाचारप्रणिध्यध्ययनम् । अधुना विनयसमाध्याख्यमारभ्यते-अस्य चायमभिसम्बन्ध:-इहानन्तराध्ययने निरवयं वच आचारे प्रणिहितस्य भवतीति, तत्र यत्नवता भवितव्यमित्येतदुक्तं, इह त्वाचारप्रणिहितो यथोचित. | विनयसंपन्न एव भवतीत्येतदुच्यते। उक्तं च-" आयारपणिहाणमि, से सम्म बट्टई बुहे । णाणाईणं विणीए जे, मुक्खट्ठा निबिगिच्छए ॥१॥" इत्यनेन सम्बन्धेनायातमिदमध्ययनमिति
थंभा व कोहा व मयप्पमाया, गुरुस्सगासे विणयं न सिक्खे (तिइ)।
सो चेव उ तस्स अभइभावो, फलं व कीअस्स वहाय होइ॥ ३९९ ॥ थंभा वेत्यादि, स्तम्भादा मानाद्वा जात्यादिनिमित्तात् क्रोधाद्वा-अक्षान्तिलक्षणात् , मायाप्रमादादिति, | मायातो-निकृतिरूपायाः प्रमादात-निद्रादेः सकाशात् , किमित्याह-गुरोः सकाशे-आचार्यादेः समीपे विनयमासेवनाशिक्षादिभेदभिन्नं न शिक्षते-नोपादत्ते, तत्र स्तम्भात् कथमहं जात्यादिमान् जात्यादिहीनसकाशे शिक्षामीति, एवं क्रोधात्कचिद्वितथकरणचोदितो रोपाद्वेति, मायातः 'शूलं मे बाधत' इत्यादिव्याजेन, प्रमादात् प्रक्रान्तोचितमनवबुद्ध्यमानो निद्रादिव्यासङ्गेन, स्तम्भादिक्रमोपन्यासश्चेत्थमेवामीषां विनयविघ्नहेतुतामाश्रित्य प्राधान्यख्यापनार्थः, तदेवं स्तम्भादिभ्यो गुरोः सकाशे
॥१५७॥
Jain Education Intema
For Private & Personel Use Only
www.jainelibrary.org