SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सुमतिसाघु० श्रीदशवे० ज० ८ ॥ १५६ ।। Jain Education Intera उत्तमं प्रधानं प्राप्त इत्यर्थः, तामेव श्रद्धामप्रतिपतितया प्रवर्धमानामनुपालयेद्यत्नेन, क्वेत्याह- गुणेषु - मूलगुणादिलक्षणेषु आचार्यसंमतेषु - तीर्थंकरादिबहुमतेषु अन्ये तु श्रद्धाविशेषणमित्येतद्व्याचक्षते, तामेव श्रद्धामनुपालयेद्गुणेषु, किंभूतांआचार्यसम्म, न तु स्वाग्रहकलङ्कितामिति ।। ३९५ ।। आचारप्रणिधिफलमाह - तवं चिमंति, तपश्चेदमनशनादिरूपं साधु लोकप्रतीतं संयमयोगं च पृथिव्यादिविषयं संयमव्यापारं च स्वाध्यायादियोगं च-वाचनादिव्यापारं सदा-सर्वकालमधिष्ठाता तपःप्रभृतीनां कर्त्तेत्यर्थः, इह च तपोऽभिधानात्तद्ग्रहणेऽपि स्वाध्याययोगस्य प्राधान्यख्यापनार्थं भेदेना| भिधानमिति । स एवंभूतः शूर इव-विक्रान्तभट इव सेनया - चतुरङ्गरूपया इन्द्रियकषायादिसेनया निरुद्धः सन् समाप्तायुधः- संपूर्णतपःप्रभृतिखङ्गाद्यायुधः, अलं- अत्यर्थमात्मनो भवति, संरक्षणायै अलं च परेषां निवा (क) रणायेति ।। ३९६ ।। एतदेव स्पष्टयन्नाह - सज्झायति, स्वाध्याय एवं सद्ध्यानं स्वाध्याय सद्ध्यानं तत्र रतस्य - आसक्तस्य त्रातुः - स्त्रपरोभयत्राणशीलस्य अपापभावस्य - लब्ध्याद्यपेक्षारहिततया शुद्धचित्तस्य तपसि - अनशनादौ यथाशक्त्या, रतस्य विशुद्धयते अपैति, यदस्य साधोर्मलं-कर्ममलं पुराकृतं -जन्मान्तरोपातं दृष्टान्तमाह- समीरितं- प्रेरितं रूपयमलमित्र ज्योतिषा- अग्निनेति ॥ ३९७ ॥ ततश्व-से तारिसेति, स तादृश अनन्तरोदितगुणयुक्तः साधुर्दुःखसह:परीपहजेता जितेन्द्रियः - पराजितश्रोत्रेन्द्रियादिः श्रुतेन युक्तो विद्यावानित्यर्थः, अममः - सर्वत्र ममत्वरहितः, अकिञ्चनो द्रव्यभावकिञ्चनरहितः, विराजते-शोभते, कर्म्मघने-ज्ञानावरणीयादिकर्ममेघे अपगते सति निदर्शनमाहकृत्स्नाभ्रपुटापगमे इव चन्द्रमा इति यथा कृत्स्ने अभ्रपुटे कृष्णे वा अपगते सति चन्द्रमा विराजते शरदि, तद्वदसावपग For Private & Personal Use Only उपदेशः ।। १५६ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy