________________
उपदेशः
मुमति साधु
श्रीदशवे. अ०८
॥१५४ ॥
उपलक्षणमेतदनलक्कृतां च न निरीक्षेत, कथंचिद्दर्शनयोगेऽपि भास्करमिवादित्यमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत्द्रागेव निवर्तयेदिति ।। ३८९ ॥ किंबहुना हत्थति, हस्तपादप्रतिच्छिन्ना-प्रतिच्छिन्नहस्तपादां कर्णनासाविकृत्ता-N मिति-विकृत्तकर्णनासामपि वर्षशतिकां नारी, एवं वृद्धामपि किमङ्गं पुनस्तरुणी?, तां तु सुतरामेव, ब्रह्मचारी-चारि
धनो महाधन इव तस्करान्विवर्जयेदिति ॥ ३९॥ अपिच-विभूसेति, विभूषा-वस्त्रादिराढा, स्त्रीसंसर्गः-येन केनचित्प्रकारेण स्त्रीसम्बन्धः, प्रणीतरसभोजन-गलत्स्नेहरसाम्यवहारः, एतत्सर्वमेव विभूषादि नरस्यात्मगवेषिण:आत्महितान्वेषणपरस्य विषं तालपुटं यथा-तालमात्रव्यापत्तिकरविषकल्पमहितमिति ॥ ३९१ ॥ किंच-अंगपचंगेति, अङ्गप्रत्यङ्गसंस्थानमिति, अङ्गानि-शिरप्रभृतीनि प्रत्यङ्गानि-नयनादीनि एतेषां संस्थान-विन्यासविशेष, तथा चारुशोभनं लपितपेक्षितं-लपितं-जल्पितं प्रेक्षित-निरीक्षितं स्त्रीणां सम्बन्धि, तदङ्गप्रत्यङ्गसंस्थानादि न निरीक्षेत-न पश्येत , कुत इत्याह-कामरागविवर्द्धनमिति, एतद्धि निरीक्ष्यमाणं मोहदोषान्मैथुनाभिलाषं वर्द्धयति, अत एवास्य प्राक स्त्रीणां निरीक्षणप्रतिषेधात् गतार्थतायामपि प्राधान्यख्यापनार्थो भेदेनोपन्यास इति ॥३९२॥ किंच-विसएसुत्ति, विषयेषुशब्दादिषु, मनोज्ञेषु-इन्द्रियानुकूलेषु, प्रेम-राग नाभिनिवेशयेत्-न कुर्यात् , एवममनोज्ञेषु द्वेष, आह-उक्तमेवेदं प्राक "कन्नसोक्खेहीत्यादौ" (गा.३६०) किमर्थं पुनरुपन्यास इति ?, उच्यते-कारणविशेषाभिधानेन विशेषोपलम्भार्थमिति,
आह च-अनित्यमेव-परिणामानित्यतया तेषां-पुद्गलानां, तुशब्दात् शब्दादिविषयसम्बन्धिनामितियोगः, विज्ञाय-अवेत्य | जिनवचनानुसारेण, किमित्याह-परिणाम-पर्यायान्तरापत्तिलक्षणं, ते हि मनोज्ञा अपि क्षणादमनोज्ञतया परिणमन्ति,
॥१५४ ॥
Jain Education Intern
For Private
Personal Use Only
www.jainelibrary.org