________________
सुमति
साधु०
श्रीदशवे०
अ० ८
।। १५० ।।
Jain Education International
दिट्टं मिअं असंदिद्धं, पडिपुन्नं विअं जिअं । अयंपिरमणुविग्गं, भासं निसिर अत्तत्वं ॥ ३८३ ॥ आयारपन्नत्तिधरं, दिट्टिवायमहिज्जगं । वायविक्खलिअं नच्चा, न तं उवहसे मुणी ॥ ३८४ ॥
यतएवमतः कषायनिग्रहार्थमिदं कुर्यादित्याह - रायणिएत्ति, रत्नाधिकेषु - चिरदीक्षितादिषु विनयं अभ्युत्थानादिरूपं प्रयुञ्जीत, तथा ध्रुवशीलतां - अष्टादशशीलाङ्गसहस्रपालनरूपां सततं अनवरतं यथाशक्या न हापयेत् तथा कूर्म्म इव - कच्छप इव आलीनप्रलीनगुप्तः अङ्गोपाङ्गानि सम्यक्संयम्येत्यर्थः, पराक्रमेत- प्रवर्त्तेत तपः संयमे तपःप्रधाने संयमे इति ॥ ३७५ ॥ किं च-निदं चेति, निद्रां च न बहु मन्येत न प्रकामशायी स्यात्, सप्रहासं च-अतीवग्रहासरूपं विवर्जयेत्, मिथः कथासु-राहस्यिकीषु न रमेत, स्वाध्याये - वाचनादौ रतः सदा, एवंभूतो भवेदिति ॥ ३७६ ॥ तथा - जोगं चेति, योगं च त्रिविधं मनोवाक्कायव्यापारं श्रमणधर्मे - क्षान्त्यादिलक्षणे युञ्जीत अनलसः - उत्साहवान्, ध्रुवं कालाद्यौचित्येन नित्यं सम्पूर्ण सर्वत्र प्रधानोपसर्जनभावेन वा अनुप्रेक्षाकाले मनोयोगं, अध्ययनकाले वाग्योगं प्रत्युपेक्षणाकाले काययोगमिति फलमाह-युक्त एवं व्यापृतः श्रमणधर्मे दशविधे अर्थं लभते प्राप्नोत्यनुत्तरं भावार्थ ज्ञानादिरूपमिति ॥ ३७७ ॥ एतदेवाह - इहलोएत्ति, इहलोकपरत्रहितमिहाकुशलप्रवृत्तिदुःखनिरोधेन परत्र कुशलानुबन्धतः, उभय लोकहितमित्यर्थः, येनार्थेन ज्ञानादिना करणभूतेन गच्छति सुगतिं, पारम्पर्येण सिद्धिमित्यर्थः, उपदेशाधिकारे उक्त व्यतिकरसाधनोपायमाह - बहुश्रुतं-आगमवृद्धं पर्युपासीत-सेवेत, सेवमानश्च पृच्छेदर्थविनिश्चयमपायरक्षकं कल्याणावहं वार्थावितथमावमिति ॥ ३७८ ॥ पर्युपासीनश्च - इत्थंति, हस्तं पादं च कार्य च प्रणिधायेति
For Private & Personal Use Only
उपदेशः
गा. ३८३३८४
।। १५० ।।
www.jainelibrary.org