________________
सुमति०
साधु० श्रीदशवे० ०८
॥ १४८ ॥
Jain Education Inter
अनित्यं मरणाशङ्कि जीवितं सर्वभावनिबन्धनं ज्ञात्वा, तथा सिद्धिमार्ग- सम्यग्ज्ञानदर्शनचारित्रलक्षणं विज्ञाय विनिवर्तेत भोगेभ्यो बन्धैकहेतुभ्यः, तथाऽध्रुवमप्यायुः परिमितं संवत्सरशतादिमानेन विज्ञायात्मनो विनिवर्त्तेत भोगेभ्य इति ॥ ३६८ ॥ बलं धार्मति, (बलं- शारीरिकं स्थाम- हस्तादिविशेषोत्थं पेहाए प्रेक्ष्य श्रद्धामारोग्यं आत्मनः, क्षेत्रं "चिक्खपाणथंडिले "त्यादि १३ गुणोपेतं विज्ञायात्मनः ( कालं - यौवनादिवयोरूपं ) नियोजयेद्धर्भे ।। ३६९ ।। बृहल्लघुवृत्त्योरव्याख्याता अन्यकृतेति ) उपदेशाधिकारे प्रक्रान्ते इदमेव समर्थयन्नाह - जरत्ति, जरा-वयोहानिलक्षणा यावन्न पीडयति, व्याधिः- क्रियासामर्थ्यशत्रुर्यावन्न वर्द्धते, यावदिन्द्रियाणि क्रियासामर्थ्योपकारीणि श्रोत्रादीनि न हीयन्ते तावदत्रान्तरे प्रस्ताव इतिकृत्वा धर्मं समाचरेच्चारित्रधर्ममिति ॥ ३७० ॥ तदुपायमाह- कोहंति, क्रोधं मानं च मायां च, लोभं च पापवर्धनं, सर्व एते पापहेतव इति पापवर्द्धनव्यपदेशः, यतश्चैवमतो वमेच्चतुरो दोषान् एतानेव क्रोधादीन् हितमिच्छन्नात्मनः, एतद्वमने हि सर्वसम्पदिति ॥ ३७१ || अवमने त्विह लोके एवापायमाह -कोहत्ति, क्रोधः - प्रीति प्रणाशयति, क्रोधान्धवचनतस्तदुच्छेददर्शनात्, मानो - विनयनाशनः, अवलेपेन मूर्खतया तदकरणोपलब्धेः, मायामित्राणि नाशयति, कौटिल्यवर्त्तिनस्त्यागदर्शनात्, लोभः - सर्वविनाशनः, तत्त्वतस्त्रयाणामपि तद्भावभावित्वादिति ॥ ३७२ ॥ यत एवमतः- उवसमेणंति, उपशमेन - क्षान्तिरूपेण हन्यात्क्रोधं, उदयनिरोधोदयप्राप्ताफलीकरणेन, एवं मानं मार्दवेन - अनुत्सु (च्छिततया जयेत्, उदयनिरोधादिनैव, मायां चार्जव भावेनाशठतया जयेदुदय निरोधादिनैव, एवं लोभं सन्तोषतः निःस्पृहत्वेन जयेत्तदुदय निरोधोदयप्राप्ताफलीकरणेनेति ।। ३७३ ।। क्रोधादीनामेव परलोकापाय
For Private & Personal Use Only
उपदेशः
।। १४८ ॥
www.jainelibrary.org