________________
सुमति०
साधु०
श्रीदशवे० ५० ८
।। १४५ ।।
Jain Education Intern
स्यादल्पेच्छत्वादेव दुर्भिक्षादाविति फलं प्रत्येकं वा स्यादिति क्रियायोगः, रूक्षवृत्तिः स्यादित्यादि, तथा आसुरत्वंक्रोधभावं न गच्छेत् क्वचित् स्वपक्षादौ श्रुत्वा जिनशासनं - क्रोधविपाकप्रतिपादकं वीतरागवचनं, जहा -" चउहिं ठाणेहिं जीवा आसुरत्ताए कम्मं पकरिंति, तंजहा- कोहसीलयाए पाहुडसीलयाए जहा ठाणे जात्र जं णं मए एस पुरिसे अण्णाणी मिच्छादिट्ठी अकोसह हणइ वा तं ण मे एस किंचि अवरज्झइति, किं तु मम एयाणि वेयणिजाणि कम्माणि अवरज्यंतित्ति सम्म महियासमाणस्स निजरा एव भविस्सइ " ति ॥ ३५९ ॥ तथा कन्नत्ति, कर्णसौख्य हेतवः - कर्णसौख्याः शब्दावेणुवीणादिसम्बन्धिनः तेषु प्रेम-रागं नाभिनिवेशयेत् न कुर्यादित्यर्थः, तथा दारुणमनिष्टं कर्कशं कठिनं स्पर्शपनतं सन्तं कायेनाधिसहेत्, न तत्र द्वेषं कुर्यात् इत्यनेनाद्यन्तयो रागद्वेषनिराकरणेन सर्वेन्द्रियविषयेषु रागद्वेषप्रतिषेघो वेदितव्य इति ।। ३६० ।। किच-खुहंत्ति, क्षुधं बुभुक्षां, पिपासां तृषं, दुःशय्यां विषमभूम्यादिरूपां, शीतोष्णंप्रतीतं, अरतिं - मोहनीयोद्भवां भयं व्याघ्रादिसमुत्थमति सहेदेतत्सर्वमेव अव्यथितोऽदीनमनाः सन् देहे दुःखं महाफलं संचिन्त्येति वाक्यशेषः, तथा च शरीरे सत्येतदुःखं, शरीरं चाsसारं सम्यगतिसह्यमानं च मोक्षफल मेवेदमिति ॥ ३६१ ॥ किंच-अत्थंति, अस्तं गते आदित्ये-अस्तपर्व्वतं प्राप्ते अदर्शनीभूते वा पुरस्तात् चानुगते - प्रत्यूषस्यनुदित इत्यर्थः, आहारात्मकं सव्वं निरवशेषमाहारजातं मनसापि न प्रार्थयेत् किमङ्ग पुनर्वाचा कर्मणा वेति ॥ ३६२ ॥ अतिंतिणे अचवले, अप्पभासी मिआसणे । हविज्ज उअरे दंते, थोवं लडुं न खिंसए ॥ ३६३ ॥ न बाहिरं परिभवे, अत्ताणं न समुक्कसे । सुअलाभे न मज्जिज्जा, जच्चा तवस्सिबुद्धी ॥ ३६४ ॥
१३
For Private & Personal Use Only
उपदेशः
गा. ३६३
३६४
।।। १४५ ।।
www.jainelibrary.org