________________
सुमति साधु श्रीदशवै० अ०८
अष्टसूक्ष्माणि गा.३४७.
३४९
॥१४॥
पत्रेण-पधिनीपत्रादिना, शाखया-वृक्षडालरूपया विधूवनेन वा-ध्यजनेन वा, किमित्याह-न वीजयेदात्मनः कार्यस्वशरीरमित्यर्थः, बाह्य वापि पुद्गलं-उष्णोदकादीति ॥ ३४३ ॥ प्रतिपादितो वायुकायविधिः, वनस्पतिविधिमाह-तणत्ति, तृणवृक्षमित्येकवद्भावः, तृणानि-दर्भादीनि वृक्षा:-कदम्बकादयः, एतान्न छिन्यात्, फलं मूलकं वा कस्यचिवृक्षादेन छिन्द्यात् तथा आम-अशस्त्रोपहतं विविध-अनेकप्रकारं बीजं मनसापि न प्रार्थयेत् , किं पुनरश्नीयादिति ॥ ३४४ ॥ तथा गहणेसु, गहनेषु-वननिकुञ्जषु च न तिष्ठेत् , सट्टनादिदोषप्रसङ्गात् , तथा बीजेषु-प्रसारितशाल्यादिषु, हरितेषु वा-दुर्वादिषु न तिष्ठेत , उदके तथा नित्यं अत्रोदकं-अनन्तवनस्पतिविशेषः, यथोक्तं-"उदए अवए पणए" इत्यादि, उदकमेवान्ये, तत्र नियमतो वनस्पतिभावात , उत्तिङ्गपनकयोर्वा न तिष्ठेत् , तत्रातिङ्ग:-सर्पच्छत्रादिः पनका-उल्लिवनस्पतिरिति ।। ३४५।। उक्तो वनस्पतिविधिः, त्रसविधिमाह-तसत्ति, त्रसप्राणिनो-द्वीन्द्रियादीन् न हिंस्यात्, कथमित्याहवाचा अथवा कर्मणा-कायेन, मनसस्तदन्तर्गतत्वादग्रहणं, अपि चोपरतः सर्वभूतेषु निक्षिप्तदण्डः सन् पश्येद्विविधं जगत्-कर्मपरतन्त्रं नरकादिगतिरूपं निर्वेदायेति ॥ ३४६ ।। अट्र सुहमाई पेहाए, जाई जाणित्त संजए। दयाहिगारी भएस. आस चिट्ट सएहि वा॥३४७। कयराइं(णि) अट्ठ सुहुमाइं? जाइं पुच्छिज्ज संजए। इमाइं ताइं मेहावी, आइक्खिज विअक्खणो ।३४८ सिणेहं पुप्फसुहुमं च, पाणुत्तिंगं तहेव य । पणगं बीअहरिअं च, अंडसुहुमं च अट्ठमं ॥ ३४९ ॥
Jain Education inte
For Private & Personel Use Only
www.jainelibrary.org